SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ सर्वस्तोका बादरतेजस्कायिकाः पर्याप्ताः, आवलिकासमयवर्गे कतिपयसमयन्यूनरावलिकासमयैर्गुणिते यावान समयराशिस्तावत्प्रमाणत्वात् तेषाम् १ । तेभ्यो बादरत्रसकायिकाः पर्याप्ता असङ्खयेयगुणाः, प्रतरे यावन्त्य गुलसङ्खयेयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषाम् २ । तेभ्यो बादरत्रसकायिका अपर्याप्ता असङ्खयेयगुणाः, प्रतरे यावन्त्यगुलासङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषाम् ३। ततः प्रत्येकबादरवनस्पतिकायिकाः ४ बादरनिगोदाः ५ बादरपृथिवीकायिकाः ६ बादराप्कायिकाः ७ बादरवायुकायिकाः ८ पर्याप्ता यथोत्तरमसङ्खयेयगुणाः। यद्यप्येते प्रत्येक प्रतरे यावन्त्यगुलासङ्ख्थेयभागमात्राणि खण्डानि तावत्प्रमाणास्तथाप्यङ् गुलासङ्खयेयभागस्यासङ्खयेयभेदभिन्नत्वादित्थं यथोत्तरमसङ्ख्यगुणत्वमभिधीयमानं न विरुध्यते ८ । तेभ्यो बादरतेजस्कायिका अपर्याप्ता असङ्खयेय गुणाः, असङ्खयेयलोकाकाशप्रदेशप्रमाण त्वात् ह । ततः प्रत्येकशरीरबादरवनस्पतिकायिकाः १० बादरनिगोदाः ११ बादरपृथिवीकायिकाः १२ बादराप्कायिकाः १३ बादरवायुकायिकाः १४ अपर्याप्ता यथोतरमसङ्खयेय गुणाः। ततो बादरवायुकायिकेभ्योऽपर्याप्तेभ्यः सूक्ष्मतेजस्कायिका अपर्याप्ता असङ्खयेयगुणाः १५ । ततः सूक्ष्मपृथिवीकायिकाः १६ सूक्ष्मा कायिकाः १७ सूक्ष्मवायुकायिकाः १८ अपर्याप्ता यथोत्तरं विशेषाधिकाः। ततः
SR No.022608
Book TitlePragnapanopang Tritiya Pad Sangrahani
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year7989
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy