SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ तन्दुलगैचारिकप्रकीर्णकम् [८५ षट्त्रिंशदहोरात्रसहस्राणि जीवन् असुमान दश मुहूर्तलक्षाण्यशीतिमुहूर्तसहस्राणि १०,८०,०,०० च जीवति ७ । दशलक्षमुहूर्ताण्यशीतिमुहूर्तसहस्राणि च जीवन् देहधारी चत्वायुच्छ्वासकोटिशतानि सप्तकोटीः अष्टचत्वारिंशच्छतसहस्राणि चत्वारिंशत्सहस्राणि च जीवति देहभृत् ४,०७,४८,४०,०,००, ८ । चत्वायुच्छ्वासकोटिशतानि यावच्चत्वारिंशदुच्छ्वाससहस्राणि जीवन सार्धद्वाविंशति तन्दुलवाहान वक्ष्यमाणस्वरूपान् भुनक्ति । कथम् ? हे आयुष्मन् ! हे सिद्धार्थनन्दन ! साधद्वाविंशतितन्दुलवाहान् भुनक्ति संसारीति १, हे गौतम ! दुबैलिकया स्त्रिया खण्डितानां बलवत्या रामया छटितानां सूर्पादिना खदिरमुशलप्रत्याहतानामपगततुषकणिकानामखण्डानांसम्पूर्णावयवानामस्फुटितानां-राजिरहितानां 'फलगसरियाणं'ति फलकविनीतानां कर्करादिकर्षणेनैकैकवीजानां वीननार्थं पृथक् पृथक्कृतानामित्यर्थः, एवंविधानां सार्धद्वादशपलानां तन्दुलानां प्रस्थको भवति, 'णं' वाक्यालङ्कारे, पलमानं यथा-पञ्चभिगुञ्जाभिर्माषः षोडशमाः कर्षः अशीतिगुजाप्रमाण इत्यर्थः स यदि कनकस्य तदा सुवर्णसंज्ञः नान्यस्य रजतादेरिति, चतुर्भिः कः पलमिति विंशत्यधिकशतत्रयगुजाप्रमाणमित्यर्थः ३२०, सोऽपि च प्रस्थकः मगधे भवो मागध इत्युच्यते, 'कल्लं'ति श्वः प्रातःकाल इत्यर्थः, प्रस्थो भवति भोजनायेति १ 'साय'मिति सन्ध्यायां प्रस्थो
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy