________________
तन्दुलगैचारिकप्रकीर्णकम् [८३ विशेषेण सुष्टु कृता शोभा यस्य स तथा, ततः पदत्रयस्य कर्मधारयः, अथवा कल्पितहारादिभिः सुष्टु कृता शोभा यस्य स तथा, पिनद्धानि-परिहितानि ग्रेवेयकामुलीयकानि कण्ठकाख्योर्मिकाख्यानि येन स तथा, तथा 'ललियंगय'त्ति ललिताङ्गके-शोभमानशरीरे अन्यान्यपि ललितानि-शोभनानि कृतानि-न्यस्तानि आभरणानि-सारभूषणानि यस्य स तथा, ततः पदद्वयस्य कर्मधारयः, नानामणिकनकरत्नानां कटकत्रुटिकैः-हस्तवाह्वाभरणविशेषैः बहुत्वात् स्तम्भिताविव स्तम्भितौ भुजौ यस्य स तथा, अधिकरूपेण सश्रीकः-सशोभो यः स तथा, कुण्डलाभ्यां-कर्णाभरणाभ्यामुद्योतितं-उद्योतं प्रापितमाननं-मुखं यस्य स तथा, मुकुटदीप्तशिरस्कः, हारेणावस्तृतं-आच्छादितं तेनैव सुष्ठु कृतं रतिदं च वक्षः-उरो यस्यासौ हारावस्तृतसुकृतरतिदवक्षाः (क्षसः), प्रलम्बेन-दीघण प्रलम्बमानेन च सुष्टु कृतं पटेन तु उत्तरीयं-उत्तरासङ्गो येन स तथा, मुद्रिका:-अगुल्याभरणानि ताभिः पिङ्गलाः-कपिला अगुलयो यस्य स तथा, नानामणिकनकरत्नैर्विमलानि-विगतमलानि महार्हाणि-महा_णि निपुणेन शिल्पिना 'उविय'त्ति परिकमितानि 'मिसिमिसिंतत्ति दीप्यमानानि यानि विरचितानि-निवृत्तानि सुश्लिष्टानि-सुसन्धीनि विशिष्टानि अन्येभ्यो विशेषवन्ति लष्टानि-मनोहराणि आविद्धानि-परिहितानि वीरवलयानि येन स तथा, सुभटो हि यदि कश्चिदन्योऽप्यस्ति