________________
तन्दुलवैचारिकप्रकीर्णकम् [५३ एवं-वक्ष्यमाणं चिन्तितव्यं-मनसा विकल्पनीयं 'एस्संतीति एष्यन्ति-आगमिष्यन्ति खलु निश्चये बहवः समयाः, 'वहव' इत्यग्रेऽपि योज्यं, सर्वनिकृष्टः कालः समयः १, असङ्ख्यातः समयैरावलिका, जघन्ययुक्तासङ्घय यसमयराशिमाना इत्यर्थः २, अष्टादशनिमेषैः काष्ठा, काष्ठाद्वयं लवः, लवैः पञ्चदशभिः कला, कलाद्वयं लेशः, पञ्चदशभिलेशैः क्षणः ३, सङ्घय या आवलिका आनः एकः उच्छ्वास इत्यर्थः ता एव सङ्ख्य या निश्वासः द्वयोरपि कालः प्राणः ४, सप्तभिः प्राणैः स्तोकः ५ सप्तभिः स्तोकैलवः ६ सप्तसप्तत्या लवैः मुहर्त्तः ७ पश्चदशमुहूर्तेर्दिवसः ८ त्रिंशन्मुहूर्तेरहोरात्रः है तैः पञ्चदशभिः पक्षः १० ताभ्यां द्वाभ्यां मासः ११ मासद्वयेन ऋतुः १२ ऋतुत्रयमानमयनं १३ अयनद्वयेन संवत्सरः १४ पश्चभिस्तैयुगं १५ विंशत्या युगैर्वर्षशतं १६ तैर्दशभिर्वर्षसहस्रं १७ तेषां शतेन वर्षशतसहस्र लक्षमित्यर्थः १८ शतलब वर्षकोटिः १६ वर्षकोटिः वर्षकोटिभिः गुण्यते वर्षकोटीकोटिः भवति १०,००, ००,००,००,००,००० इति २०, १ । यत्र समयावलिकादौ 'ण' वाक्यालङ्कारे 'अम्हे'त्ति वयं बहूनिप्रभूतानि शीलानि-समाधानानि व्रतानि-महाव्रतानि 'गुणा' इति गुणान्-विनयादीन , अत्र 'गुणाद्याः क्लीबे वे' (श्रीसि. अ.८ पा. १ सू. २४) ति क्लीवत्वं, 'वेरमणाइ"ति असंय