________________
तन्दुलवैचारिकप्रकीर्णकम् [ ४३ कृतितप्तलोहभाजनसदृशे नरकसदृशे-नारकोत्पत्तिस्थानतुल्ये 'वुच्छो'त्ति उषित:-स्थितः, अमेध्यं-गूथं मध्ये यस्य गर्भगृहस्य सः अमेध्यमध्यस्तस्मिन् अशुचिप्रभवे-जम्बालाद्यद्भवे अशुचिके-अपवित्रस्वरूपे ॥ २७ ॥
'पित्त०' पित्तस्य 'सिंभस्य' श्लेष्मणः शुक्रस्य शोणितस्य मूत्रस्य पुरीषस्य-विष्ठायाः मध्ये-मध्यभागे जायतेउत्पद्यते, क इव ?-'वचकिम्मिउव्य'त्ति वर्चस्व कृमिवत्विष्ठानीलंगुवत् , यथा कृमिः-द्वीन्द्रियजन्तुविशेषः उदरमध्यस्थविष्ठायामुत्पद्यते तथा जीवोऽपीति ॥ २८ ॥ ___'तं दाणि.' तत् 'दाणिति इदानों-साम्प्रतं शौचकरणं-शरीरसंस्कारकरणं कीदृशं भवति तस्य-गर्भनिर्गतस्य जीवस्य ?, यस्य भङ्गुरशरीरस्योत्पत्तिः-प्रादुर्भावः शुक्ररुधिराकरात्-चीयरुधिरखनेः वर्तत इति ॥ २६ ॥ ___ 'एया०' एतादृशे शरीरे कलमलभृते-उदरस्थजलबटकर्दमादिपूर्णे अमेध्यसम्भूते-विष्ठाकीर्णोदरसम्भूते 'निययं विगणिज्जत'मिति पदद्वये 'सप्तम्या द्वितीये' (श्रीसि० अ० पा० ३ सू० १३७) ति सप्तम्यर्थे द्वितीया, निजके-आत्मीये 'विगणिज्जंत'मिति आत्मपरेषां जुगुप्सायोग्ये शौचमतंपवित्रत्वाङ्गीकारलक्षणं, यथा मयाऽस्य स्नानचन्दनादिना पवित्रत्वं विधेयमिति, यद्वा शौचेन-वस्त्रचन्दनाभरणादिना