________________
तन्दुलवैचारिक प्रकीर्णकम्
[ ३७
'जीवे णं भंते! ग०' जीवो हे भदन्त ! गर्भगतः सन् 'उत्ताणए वे 'ति उत्तानको वा सुप्तोन्मुखो वेत्यर्थः 'पासिल्लिए वत्ति पार्श्वशायी वा 'अंबखुज्जए वत्ति आम्रफलवत् कुब्ज इति 'अच्छिन 'ति आसीनः सामान्यतः, एतदेव विशेषतः उच्यते - 'चिट्ठेज व 'त्ति ऊर्ध्व स्थानेन 'निसीज्जए वे 'ति निषदनस्थानेन 'तुयहेज्ज व 'त्ति शयीत निद्रया इति वेति 'आसइज्ज व 'त्ति आश्रयति गर्भमध्यप्रदेशं 'सहज्ज व 'त्ति शेते निद्रां विनेति, मात्रा मातरि वा 'सुयमाणी 'ति शयनं कुर्वत्या कुर्वत्यां वा 'सुयइ'त्ति स्वपिति निद्रां करोतीत्यर्थः, 'जागरमाणीए'त्ति जाग्रत्या- जागरणं कुर्वत्या कुर्वत्यां वा जागत्ति, निद्रानाशं कुरुते इत्यर्थः, सुखितायां सुखितो भवति दुःखितायां दुःखितो भवति, 'हन्ता गोयम ! त्ति' हन्त इति कोमलामन्त्रणार्थो दीर्घत्वं च मागधदेशीप्रभवं, उभयत्रापि 'जीवे णं गब्भगए समाणे ' इत्यादेः प्रत्युच्चारणं तु स्वानुमतत्व प्रदर्शनार्थ, वृद्धाः पुनराहु:'हंता गोयमा !' इत्यत्र हन्त इति एवमेतदिति अभ्युपगमवचनं, यदनुमतं तत्प्रदर्शनार्थं 'जीवे णं गन्भगए' इत्यादि प्रत्युच्चारितमिति, हे गौतम! जीवो गर्भगतः सन् उत्तानको वायावदुःखितो भवतीति ॥ ० ॥
धिरजायंपि हु रक्खइ सम्मं सारक्खई तओ जणणी । संवाहई तुई रक्खर अप्पं च गन्भं च ॥ १८ ॥