SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ २२ 'जीवस्स णं भंते !' इत्यादि, हे भदन्त ! जीवस्यजन्तोः 'ण' वाक्यालङ्कारे गर्भगतस्य-गर्भत्वं प्राप्तस्य 'समा. णस्स'त्ति सतः अस्ति-विद्यते वर्तत इत्यर्थः उच्चारो-विष्ठा 'इ' इति उपप्रदशने अलङ्कारे पूरणे वा वेति विकल्पार्थ'प्रश्रवणं' मृत्रं 'खेलो' निष्ठीवनं 'सिंघाणे'ति नासिकाश्लेष्म 'वंतं' वमनं 'पित्तं' मायुः शुक्र-वीर्य शोणितंरुधिरं 'सुक्के इ वा सोणिए इ वा' इति पदद्वयं भगत्यादिसूत्रे न दृश्यते आगमविचार्यमिति, 'नो इणहे समहे' नो-नैव 'इण? 'त्ति अयमनन्तरोक्तत्वेन प्रत्यक्षोऽर्थोभावः समर्थो-बलवान् , वक्ष्यमाणदूषणमुद्गरप्रहारजरितत्वात् १। गौतमस्वामी प्राह-'से केणढणं'ति अथ केन कारणेन इत्यर्थः हे भदन्त ! एवं प्रोन्यते-जीवस्य गर्भगतस्य सतो नास्ति उच्चारो यावच्छोणितमिति ?, भगवान् प्राह-हे गौतम ! जीवः णं वाक्यालङ्कारे गर्भगतः सन् यदाहारमाहारयति तदाहारं श्रोत्रेन्द्रियतया १ चक्षुरिन्द्रियतया २ घाणेन्द्रियतया ३ जिह्वन्द्रियतया ४ स्पर्शनेन्द्रियतया ५ चिनोति पुष्टिभावं नयतीत्यर्थः, इन्द्रियाणि द्वैधानि-पुद्गलरूपाणि द्रव्येन्द्रियाणि १ लब्ध्युपयोगरूपाणि तु भावेन्द्रियाणि २, पुननित्युपकरणलक्षणभेदात द्वैधानि द्रव्येन्द्रियाणि, तत्र निवृ. त्तिद्विधा-अन्तो १ बहिश्च २, तत्र अन्तः-श्रोत्रेन्द्रियस्य अन्तः-मध्ये नेत्रगोचरातीता केवलिदृष्टा कदम्बकुसुमाकारा
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy