________________
तन्दुलवैचारिकप्रकीर्णकम् [ १५ जघन्यतः एको द्वौ वा त्रयो वा उत्कृष्टतस्तु 'लक्खपुहत्तं'ति लक्षपृथक्त्वं नवलक्षगर्भजजीवा उत्पद्यन्ते इत्यर्थः, निष्पत्ति च प्रायः एको द्वौ वाऽऽगच्छतः, शेषास्त्वल्पजीवितत्वात्तत्रैव नियन्ते, एको द्वौ वेत्युक्तं व्यवहारापेक्षया निश्चयापेक्षया तु ततोऽधिकं न्यूनं वा भवतीति द्रष्टव्यमिति, चशब्दात् स्त्रियाः संसक्तायां योनौ द्वीन्द्रिया जीवा जघन्यतः एको द्वौ वा त्रयो वोत्कृष्टतो नवलक्षप्रमाणा उत्पद्यन्ते, तप्तायःशलाकान्यायेन पुरुषसंयोगे तेषां जीवानां विनाशो भवति, स्त्रीपुरुषमैथुने मिथ्यादृष्टयः अन्तमुहूर्त्तायुषः अपर्याप्तावस्थाकालकारिणः नवप्राणधारकाः नारकदेवयुगलवर्जितशेषजीवस्थानगमनशीलाः नारकदेवयुगलाग्निवायुवर्जितशेषजीवस्थानागमनस्वभावाः मुहूर्तपृथक्त्वकायस्थितिकाः असङ्ख्य याः संमृच्छिममनुष्या उत्पद्यन्ते चेति, तथा 'वारसमुहुत्त'त्ति पुरुषवीर्यस्य कालमानं द्वादश मुहर्तानि, एतावत्कालमेव शुक्रशोणिते अविध्वस्तयोनिके भवत इति' 'पिअ'त्ति पितृणां पितृसंख्या तस्याः शतपृथक्त्वं भवति, अयमाशयः-उत्कृष्टतो नवानां पितृशतानामेकः पुत्रो जायते, एतदुक्तं भवति-कस्याश्चिद् दृढसंहननायाः कामातुरायाश्च योषितो यदा द्वादशमुहूत्तेमध्ये उत्कृष्टतो नवभिः पुरुषशतैः सह सङ्गमो भवति तदा तद्बीजे यः पुत्रो भवति स नवानां पितृशतानां पुत्रो भवतीति, उपलक्षणत्वात्तिरश्चां च बीजं द्वादशमुहूर्त्तान् यावद्योनिभूतं भवति, ततश्च गवादीनां