________________
१४६ ]
तन्दुलगैचारिकप्रकोर्णकम्
यन्तीति आषेत्वात अरि इति ५ 'स'इति अन्योक्तशृङ्गारगीतादिशब्दकरणेन साधूनपि सकामान् कुर्वन्तीति ६ 'ण'इति सकज्जलसविकारसजलाभ्यां, नेत्राभ्यां पुरुषं सकामं स्ववशं सगद्गदं स्वकार्यकर्तारमपराधमोक्तारं कुर्वन्तीति गुरुगदरिसणेहि १२ । ____'भूमिलिहणविलिहणेहिं चेति भूमिलिखनानिभूमौ पादादिनाऽक्षरलेखनानि विलिखनानि-विशेषतो रेखास्वस्तिकादिकरणानि तैः स्वगुह्य पुरुषाणां ज्ञापयन्ति इति भूमि (लेखनवि लेखनैरिति चकारौ अत्र समुच्चयाथौँ 'आरहणनट्टणेहिं च'त्ति आरुहणानि--वंशाग्रादिचटनानि-नर्तनानि-भूमौ नृत्यकरणानि तैः आरुहणनर्तनः पुरुषादिकमाश्चर्यवन्तं कुर्वन्तीति, बालयउवगृहणेहिं चेति बालकाः-मूर्खाः कामिन इत्यर्थः तेषामुपगूहनानि--प्रच्छन्नरक्षणादीनि तैlलकोपगृहनैः कुरण्डाः स्वकामेच्छां पूरयन्तीति, यद्वा बालकाः केशकलापास्तेषामुपगृहनानि-रचनास्वच्छवस्त्राच्छादितादीनि तैमन्मथग्रस्तानधमाधमान स्ववशे कृत्वा बलिवर्दवत् वाहयन्तीति, चशब्दात् कपिवत् भ्रामयन्ति, अश्ववारयन्ति श्रेणिकभार्याधनश्रीराज्ञीवत् , स्वार्थाप्राप्तौ प्राणत्यागमपि कुर्वन्तीति, 'अंगुलि०' अगुलिस्फोटनानि--कडिकाकरणानि यद्वा अङ्गुलीनां परस्परं 'ताडनानि' स्तनपीडनानि--कराभ्यां पयोधरचम्पनानि हस्ताभ्यां कुचमदनानि