________________
तन्दुलौचारिकप्रकीर्णकम् [ १२५ तस्मिन् , प्राकृतत्वादनुस्वारः, कलमलकोष्ठागारे एवंविधे कबन्धे 'दुयादुयंति शीघ्र शीघ्र किं वर्चस्कं परिवहसि त्वमिति, अत्र यथायोगं विभक्तिपरिणामो ज्ञय इति ॥११७।। _ 'तं च कि०' च पुनस्तच्छरीरं 'किर'त्ति सम्भावना रूपवत् बजत् राजमार्ग 'ओइन्नति प्राप्तं, तत्र परगन्धैःपाटलचम्पकादिभिः सुगन्धकं जातं, तत्र च त्वमात्मनो गन्धं 'मन्नतो'त्ति जानन हर्षेयसीति ॥ ११८ ॥
परगन्धं दर्शयति-'पाड' पाटलचम्पकमल्लिकाऽगुरुकचन्दनतुरुष्कमिश्रं वा-अथवा मिश्रं-संयोगोत्पन्नं यक्षकदमादिकं गंधं कस्तूर्यादिकं किं भूतं ?-'समोयरंत'ति सर्वतो विस्तरत् , एवंविधं परगन्धमात्मनो गन्धमिति 'मन्नतो'त्ति जानन् हषयसीति ॥ ११६ ॥ ___ 'सुहवा०' शुभवासैः-सुन्दरचूर्णैः सुरभिगन्धो-सुष्ठुगन्धो यत्र तत् शुभवाससुरभिगन्धं वातैः शीतलादिभिः सुखं शुभं वा यत्र तत् वातसुखं, अगुरुगन्धो धूपनादिप्रकारेण जातोऽस्येति अगुरुगन्धि, तत् एवं विधं अङ्ग-गानं वर्तते 'केसा ण्हाणसुगंध'त्ति ये च केशा:-कचास्ते स्नानेनसवनेन सुगन्धा वर्तन्ते, अथ कथय त्वं कतरः-कतमस्ते-तव आत्मनो गन्ध इति १ ॥ १२०॥
आत्मगन्धं दर्शयति यथा-'अच्छि.' अचिमलो-दूषि