________________
तन्दुलणैचारिकप्रकीर्णकम्
[ ९५
शतानि मुहूर्त्तानि तानि प्रमत्तानां - मद्यादिप्रमादयुक्तानां सुभूमब्रह्मदत्तादीनामिव हीयन्ते, न चाबुधा मूर्खा विजानन्तीति ॥ ७४ ॥
'तिन्नि० ' त्रीणि सहस्राणि षट्शताधिकानि सकलानिसम्पूर्णानि मुहूर्तानि हेमन्ते - शीतकाले भवन्ति, एतत्प्रमाणमायुर्जीवानां हेमन्ते उडुवर :- सूर्यो हरति, एवं ग्रीष्मे वर्षासु च ज्ञातव्यं भवति, अत्र आर्षत्वेन ग्रीष्मशब्दः स्त्रीलिङ्गो बहुवचनान्तश्च, वर्षशब्दस्तु आवन्तत्वेन स्त्रीलिङ्गो बहुवचना
न्तश्च ॥ ७५ ॥
'वासस० ' साम्प्रतं जीवानां परमायुः - उत्कृष्टजीवितं वर्षशतं प्रवाहेण ज्ञातव्यम्, इतो - वर्षशतात् पञ्चाशद् वर्षाणि निद्रया हरति- गमयति जीवः, इतः - शेषपञ्चाशद्वर्षतः विंशतिर्वर्षाणि हीयन्ते - यान्ति प्रमादादिना, कथं १, बालत्वे दशकं वृद्धत्वे च दशकं चेति ॥ ७६ ॥
'सीउ ० ' शीतोष्णपथगमनानि तथा क्षुत्पिपासा भयं च शोकश्च नानाविधा रोगाश्च भवन्ति, त्रिंशतः पश्चार्थं त्रिंशत्पश्चार्धं पञ्चदशवर्षरूपं तस्मिन् को भावः १ - शेषत्रिंशतो मध्यात् पञ्चदश वर्षाणि जीवानां शीतोष्णपथगमनादिभिधा यान्तीति ॥ ७७ ॥
,
' एवं '० पूर्वोक्तप्रकारेण पञ्चाशीतिवर्षाणि नष्टानि,