SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः । विटः– मूर्ख, नन्वहम् । - शकारः - इदो दाव भविअ अन्ते भावे चिट्ठदु । (पुनरन्विष्य चेटं गृहीत्वा ।) भावे भावे, गहिदा गहिदा । (क) चेटः - भट्टके, चेडे हगे । (ख) 1 शकारः - इदो भावे, इदो चेडे । भावे चेडे, चेडे भावे । तुम्हे दाव अन्ते चिट्ठ । ( पुनरन्विष्य रदनिकां केशेषु गृहीत्वा ।) भावे भावे, शंपदं गहिदा गहिदा वशन्तशेणिआ । अन्धआले पलाअन्ती मल्लगन्धेण शूइदा । केशविन्दे पलामिट्टा चाणक्केणेव्व दोवदी ॥ ३९ ॥ (ग) विट: एषासि वयसो दर्पात्कुलपुत्रानुसारिणी । केशेषु कुसुमाढ्येषु सेवितव्येषु कर्षिता ॥ ४० ॥ शकार: W ३१ एशाशि वाशू शिलशि ग्गहीदा केशु बालेशु शिलोलुहेशु । इतस्तावद्भूत्वा एकान्ते भावस्तिष्ठतु । भाव भाव, गृहीता गृहीता । (ख) भट्टारक, चेटोऽहम् । (ग) इतो भाव:, इतचेटः । भावश्चेटः, चेटो भावः । युवां तावदेकान्ते तिष्ठतम्। भाव भाव, सांप्रतं गृहीता गृहीता वसन्तसेनिका । अन्धकारे पलायमाना माल्यगन्धेन सूचिता । केशवृन्दे परामृष्टा चाणक्येनेव द्रौपदी ॥ " निर्वापितो दीपः॥भाव, गृहीता प्राप्ता ॥ तत इत एकप्रदेशे भूत्यैकान्ते हे भाव, तिष्ठ ॥ भट्टारक, चेटोऽहम् ॥ इदो भाव इत्यादि भ्रमव्युदासाय सुनिश्चयं करोति । युवां द्वावपि तावदेकान्ते तिष्ठतः (तम्) । संपदं सांप्रतम् । अन्धआले इत्यादि । अनुष्टुप् । अन्धकारे पलायमाना माल्यगन्धेन सूचिता । केशवृन्दे परामृष्टा चाणक्येनेव द्रौपदी ॥ ३९ ॥ एषेति । कुलपुत्रानुसारिणी चारुदत्तानुरक्ता । सेवितव्येष्वलंकार्येषु ॥ ४० ॥ पशाशि वाशू इति । इन्द्रवज्रायाः श्लोकः ।
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy