SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ १८ मृच्छकटिके चेट: - अज्जुके, चिट्ठ चिट्ठ - 1 उत्ताशिता गच्छशि अन्तिका मे शंपुण्णपच्छा विअ गिम्हमोरी । ओवग्गदी शामिअभश्टके मे वण्णे गडे कुक्कुडशावके व्व ॥ १९ ॥ (क) विट: - वसन्तसेने, तिष्ठ तिष्ठ । किं यासि बालकदलीव विकम्पमाना रक्तांशुकं पवनलोलदशं वहन्ती । रक्तोत्पलप्रकरकुड्मलमुत्सृजन्ती टर्मनःशिल गुहेव विदार्यमाणा ॥ २० ॥ किं यासि धावसि पलायसे प्रस्खलन्ती वासु प्रसीद न मरिष्यसि तिष्ठ तावत् । कामेन दह्यते खलु मे हृदयं तपस्वि अङ्गारराशिपतितमिव मांसखण्डम् ॥ (क) आर्ये, तिष्ठ तिष्ठ । उत्रासिता गच्छस्यन्तिकान्मम संपूर्णपक्षेव ग्रीष्ममयूरी । अववल्गति स्वामिभट्टारको मम वने गतः कुक्कुटशावक इव ॥ * मांसखण्डमिव कामेन दह्यते ॥ १८ ॥ अज्जुके गणिके । उत्ताशितेत्यादि । उपजातिच्छन्दसा श्लोकः । उत्रासिता गच्छस्यन्तिकान्मम । यद्वा । अत्तिका ज्येष्ठा मे भगिनी । 'अत्तिका भगिनी ज्येष्ठा' इत्यमरः । संपूर्णपक्षेव ग्रीष्ममयूरी । ओarगदी अववल्गति । ससंभ्रममागच्छतीत्यर्थः । शामिअभश्टके स्वामिभट्टारकः । वने गतः कुक्कुटशावक इव । गडे इति प्रथमान्तस्यैकारान्तत्वम् । 'गतभृतकृतानां ङः' इति ङः ॥ १९ ॥ किं यासीति । 'टङ्कः पाषाणदारण : ' इत्यमरः । विदारणक्षणे हि निर्मला दीप्तिः प्रसरतीति । कुड्मलं कलिका । मनःशिलगुहेति । महाभारते मनःशिलशब्दोऽपि दृश्यत इति तथा प्रयुक्तः ।
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy