SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽ। चारुदत्तः-अये, सर्वकालमित्र मैत्रेयः प्राप्तः। सखे, स्वागतम् । आस्यताम् । .. . विदूषकः-जं भवं आणवेदि । (उपविश्य ।) भोवअस्स, एसो दे पिअवअस्सेण जुण्णवुड्डेण जादीकुसुमवासिदो पावारओ अणुप्पेसिदो सिद्धीकिददेवकज्जस्स अजचारुदत्तस्स तुए उवणेदव्यो त्ति । (क) (समर्पयति ।) (चारुदत्तो गृहीत्वा सचिन्तः स्थितः ।) विदूषकः--भो, किं इदं चिन्तीअदि । (ख) चारुदत्तः-वयस्य, सुखं हि दुःखान्यनुभूय शोभते घनान्धकारेष्विव दीपदर्शनम् । सुखात्तु यो याति नरो दरिद्रतां धृतः शरीरेण मृतः स जीवति ॥ १० ॥ विदूषकः-भो वअस्स, मरणादो दालिद्दादो वा कदरं दे रोअदि । (ग) चारुदत्तः-वयस्य, दारिद्यान्मरणाद्वा मरणं मम रोचते न दारिद्यम् । अल्पक्लेशं मरणं दारिद्यमनन्तकं दुःखम् ॥ ११ ॥ (क) यद्भवानाज्ञापयति । भो वयस्य, एष ते प्रियवयस्येन जूर्णवृद्धेन जातीकुसुमवासितः प्रावारकोऽनुप्रेषितः सिद्धीकृतदेवकार्यस्यार्यचारुदत्तस्य त्वयोपनेतव्य इति । (ख) भोः, किमिदं चिन्त्यते । (ग) भो वयस्य, मरणादारिद्याद्वा कतरत्ते रोचते। न्यते ॥ सुखमित्यादि । दुःखान्यनुभूय सुखं शोभते । न तु सुखमनुभूय दुःखमिति तात्पर्यम् । स मृत एव जीवति । शरीरेण धृतः शरीरेण वेष्टितः । चर्मभस्त्रावदित्यर्थः ॥ १० ॥ मरणादो मरणात् । दालिद्दादो दारिद्यात् । कदरं कतरत् । रोचते प्रीतम् ॥ दारियादिति । अल्पसमयदुःखदत्वान्मरणमल्पक्ले मृ० २
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy