SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ मृच्छकटिके सूत्रधारः - अज्जे, इहलोइओ आदु पारलोइओ । (क) नटी - अज्ज, पारलोइओ । (ख) सूत्रधारः - (सरोषम् ।) पेक्खन्तु पेक्खन्तु अज्जमिस्सा । मम p केरकेण भत्तपरिव्वएण पारलोइओ भत्ता अण्णेसी अदि । (ग) नटी - अज्ज, पसीद पसीद । तुमं ज्जेव जम्मन्तरे भविस्ससि त्ति । (घ) सूत्रधारः - अअं उववासो केण दे उवदिट्टो । (ङ) नटी - अज्जस्स ज्जेव पिअवअस्सेण जुण्णवुट्टेण । (च) सूत्रधारः– (सकोपम् ।) आः दासीए पुत्ता जूण्णबुड्डा, कदा क्खु तुमं कुविदेण रण्णा पालएण णववहूकेसहत्थं विअ सुअन्धं कप्पिज्जन्तं पेक्खिस्सम् । (छ) (क) आर्ये, इहलौकिकोऽथवा पारलौकिकः । (ख) आर्य, पारलौकिकः । (ग) प्रेक्षन्तां प्रेक्षन्तामार्यमिश्राः । मदीयेन भक्तपरिव्ययेन पारलौकिको भर्तान्विष्यते । (घ) आर्य, प्रसीद प्रसीद । त्वमेव जन्मान्तरे भविष्यसीति । (ङ) अयमुपवासः केन तवोपदिष्टः । (च) आर्यस्यैव प्रियवयस्येन जूर्णवृद्धेन । (छ) आः दास्याः पुत्र जूर्णवृद्ध, कदा नु खलु त्वां कुपितेन राज्ञा पालकेन नववधू केशहस्तमिव सुगन्धं छेद्यमानं प्रेक्षिष्ये । पारलौकिक इत्यदेन पालकव्युदासेन नायकान्तरलाभसूचनम् ॥ ममकेरकेण मदीयेन । भत्तपरिव्वएण भक्त परिव्ययेन । ओदनव्ययेनेत्यर्थः । यद्वा । भर्तृपरित्यागेन । सरलौकिको भर्तान्विष्यते ॥ त्वमेव जन्मान्तरे भविष्यसीति ॥ अयमुपवासः केन तवोपदिष्टः || आर्यस्यैव प्रियवयस्येन जूर्णवृद्धेन । आः आक्षेपे । छयं आदुत्या आकारान्तादेशे कृते जूर्णवृद्धा इति । एवं च ' दूआ तीआ' इत्यादौ च बोद्धव्यम् । कुपितेन राज्ञा पालकेन । कप्पिज्जन्तं छेद्यमानम् ।
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy