SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ दशमोऽङ्कः । शर्विलकः - यथाहार्यः । भिक्षुः - पिअं णो पिअम् । (क) वसन्तसेना - संपदं जीवाविदहि । (ख) शर्विलक: स्थावर कस्य किं क्रियताम् । २९३ चारुदत्तः सुवृत्त, अदासो भवतु । ते चाण्डालाः सर्वचाण्डालानामधिपतयो भवन्तु । चन्दनकः पृथिवीदण्डपालको भवतु । तस्य राष्ट्रियश्यालस्य यथैव क्रिया पूर्वमासीत्, वर्तमाने तथैवा स्यास्तु । शर्विलकः – एवं यथाहार्यः । परमेनं मुञ्च मुञ्च । व्यापादयामि | चारुदत्तः– अभयं शरणागतस्य । ('शत्रुः कृतापराधः' (१०।५४) इत्यादि पठति ।) शर्विलकः - तदुच्यतां किं ते भूयः प्रियं करोमि । चारुदत्तः—अतःपरमपि प्रियमस्ति । लब्धा चारित्रशुद्धिश्चरणनिपतितः शत्रुरप्येष मुक्तः प्रोत्खातारातिमूलः प्रियसुहृदचलामार्यः शास्ति राजा । प्राप्ता भूयः प्रियेयं प्रियसुहृदि भवान्संगतो मे वयस्यो लभ्यं किं चातिरिक्तं यदपरमधुना प्रार्थयेऽहं भवन्तम् ॥ ५८ ॥ कांश्चित्तुच्छयति प्रपूरयति वा कांश्चिन्नयत्युन्नति कांश्चित्पातविधौ करोति च पुनः कांश्चिन्नयत्याकुलान् । अन्योन्यं प्रतिपक्षसंहतिमिमां लोकस्थितिं बोधय नेष क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः ॥ ५९ ॥ क) प्रियं नः प्रियम् । (ख) सांप्रतं जीवापितास्मि । दिउणतले द्विगुणतरः ॥ लब्धेति । अचला पृथ्वीम् ॥ ५८ ॥ कांश्चिदिति
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy