SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ दशमोऽङ्कः । (नेपथ्ये ।) पौराः वावादेध । किंणिमित्तं पादकी जीवावीअदि । (क) (वसन्तसेना वध्यमालां चारुदत्तस्य कण्ठादपनीय शकारस्योपरि क्षिपति ।) शकारः - गन्मदाशीधीए, पशीद, पशीद । ण उण मालइइशम् । ता पलित्ताआहि । (ख) शर्विलक:- अरे रे, अपनयत । आर्यचारुदत्त, आज्ञाप्यताम् - किमस्य पापस्यानुष्ठीयताम् । चारुदत्तः — किमहं यद्ब्रवीमि तत्क्रियते । शर्विलकः - कोऽत्र संदेहः । चारुदत्तः - सत्यम् । शर्विलकः– सत्यम् । चारुदत्तः - यद्येवं शीघ्रमयम् — शर्विलकः - किं हन्यताम् । चारुदत्तः – नहि नहि । मुच्यताम् । शर्विलकः — किमर्थम् । चारुदत्तः शत्रुः कृतापराधः शरणमुपेत्य पादयोः पतितः । शस्त्रेण न हन्तव्यः शर्विलकः -- एवम् । तर्हि श्वभिः खाद्यताम् । चारुदत्तः - नहि | २८७ 1: || 48 || उपकारहतस्तु कर्तव्यः शर्विलकः —– अहो, आश्चर्यम् । किं करोमि । वदत्वार्यः । 1 चारुदत्तः — तन्मुच्यताम् । शर्विलकः - मुक्तो भवतु । (क) पौराः, व्यापादयत । किंनिमित्तं पातकी जीव्यते । (ख) गर्भदासीपुत्र, प्रसीद प्रसीद । न पुनर्मारयिष्यामि । तत्वरित्रायस्व |
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy