SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः । द्विजमुख्यतमः कविर्बभूव प्रथितः शूद्रक इत्यगाधसत्त्वः ॥ ३ ॥ · अपि च । ऋग्वेदं सामवेदं गणितमथ कलां वैशिकीं हस्तिशिक्षां ज्ञात्वा शर्वप्रसादाद्वयपगततिमिरे चक्षुषी चोपलभ्य । राजानं वीक्ष्य पुत्रं परमसमुदयेनाश्वमेधेन चेष्ट्वा लब्ध्वा चायुः शताब्दं दशदिनसहितं शूद्रकोऽग्निं प्रविष्टः ॥ ४ ॥ अपि च । समरव्यसनी प्रमादशून्यः ककुदं वेदविदां तपोधनश्च । परवारणबाहुयुद्धलुब्धः क्षितिपालः किल शूद्रको बभूव ॥ ५ ॥ अस्यां च तत्कृतौ ३ अवन्तिपुर्यां द्विजसार्थवाहो युवा दरिद्रः किल चारुदत्तः । गुणानुरक्ता गणिका च यस्य वसन्तशोभेव वसन्तसेना ॥ ६ ॥ i इति स्मृतेः क्षत्रियेऽपि द्विजप्रयोगः ॥ ३ ॥ [ऋग्वेदमिति ॥] वेशोऽत्र कास्र्त्स्न्येन वेश्यापरः । तत्र भवा विद्यमाना । अध्यात्मादित्वाद्रक् । यद्वा वेशोऽग्निनिवेशाख्यो राजा तेन कृताम् । कलां चतुःषष्टिकलाप्रतिपादकं प्रबन्धम् । शर्वो महादेवः । लब्ध्वा चायुः शताब्दमग्निं प्रविष्ट इति जातकादिगणितद्वारा ज्ञात्वा । आगामिसूत्रधारवचनापेक्षया 'अग्निं प्रविष्ट:' इत्यादिभूतकालप्रत्ययो न विरुद्ध इति मर्मज्ञाः । अग्निप्रवेशोऽपि सर्वस्वारनाम के यज्ञविशेषे यथा शुरभङ्गेन (ण) कृतस्तथा बोद्धव्यम् ॥ ४॥ समरेति । ककुदं चिह्नभूतं चामरः --- ' प्रावीण्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम्' इति । वारणो हस्ती ॥ ५ ॥ अवन्तीति । अवन्तिपुर्युज्जयिनी । 'अस्यां च तत्कृतौ अवन्ति-' इत्या
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy