________________
२५५
नवमोऽङ्कः। चारुदत्तः-रोहसेनमपि तावदर्शय । विदूषकः-एवम् । जुज्जदि । (क) अधिकरणिकः-भद्र शोधनक, अपसार्यतामयं बटुः । .
__(शोधनकस्तथा करोति ।) अधिकरणिक:-कः कोऽत्र भोः । चाण्डालानां दीयतामादेशः।
___(इति चारुदत्तं विसृज्य निष्कान्ताः सर्वे राजपुरुषाः ।) शोधनकः-इदो आअच्छदु अज्जो । (ख)
चारुदत्तः-(सकरुणम् 'मैत्रेय भोः किमिदमद्य' (९।२९) इत्यादि पठति । आकाशे ।)
विषसलिलतुलाग्निप्रार्थिते मे विचारे __क्रकचमिह शरीरे वीक्ष्य दातव्यमद्य ।
अथ रिपुवचनाद्वा ब्राह्मणं मां निहंसि . पतसि नरकमध्ये पुत्रपौत्रैः समेतः ॥ ४३ ॥ . अयमागतोऽस्मि ।
(इति निष्क्रान्ताः सर्वे ।)
इति व्यवहारो नाम नवमोऽङ्कः ।
(क) एवम् । युज्यते । (ख) इत आगच्छत्वार्यः।
विषादिपरीक्षाप्रार्थितेऽन्विष्टे । विचारे । क्रकचं दातव्यम् । अर्हे तव्यः (१) । यदि मयोक्तं क्रियते तदा कचदानमहमेवेति भावः (१) । अथ विचारनिरपेक्षं नृपतिं हृदि स्वीकृत्य वदति ॥ ४३ ॥
इति व्यवहारो नाम नवमोऽङ्कः ।