SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ मृच्छकटिके अधिकरणिकः --- भद्र शोधनक, एवं क्रियताम् । (शोधनकस्तथा करोति ।) चारुदत्तः — विचार्यताम् । भो अधिकृताः, विचार्यताम् । ( इत्यासनादवतीर्य भूमावुपविशति । ) शकारः - (स्वगतम् । सहर्ष नर्तित्वा ।) ही, अणेण मए कडे पावे अण्णश्श मस्तके निवडदे । ता जहिं चालुदत्ता के उवविशदि तहिं हग्गे उवविशामि । ( तथा कृत्वा ।) चालुदत्ता, पेक्ख पेक्ख मम् । ता भण भण मए मालिदे त्ति । (क) चारुदत्त :- भो अधिकृताः । ( ' दुष्टात्मा - ( ९/२७) इति पूर्वोक्तं पठति । सनिश्वासं स्वगतम् ।) मैत्रेय भोः किमिदमद्य ममोपघातो हा ब्राह्मणि द्विजकुले विमले प्रसूता । हा रोहसेन न हि पश्यसि मे विपत्ति मिथ्यैव नन्दसि परव्यसनेन नित्यम् ॥ २९ ॥ प्रेषितश्च मया तद्वार्तान्वेषणाय मैत्रेयो वसन्तसेनासकाशं शकटिकानिमित्तं च तस्य प्रदत्तान्यलंकरणानि प्रत्यर्पयितुम् । तत्कथं चिरयते । (ततः प्रविशति गृहीताभरणो विदूषकः । ) विदूषकः - पेसिदोन्हि अज्जचारुदत्तेण वसन्तसेणासआसम् तहिं अलंकरणाई गेव्हिअ, जधा 'अज्जमित्तेअ, वसन्तसेणाए वच्छो रोहसेो अत्तणो अलंकारेण अलंकरिअ जणणीसआसं पेसिदो । इमस्स आहरणं दादव्वम्, ण उण गेव्हिदव्वम् । ता समप्पेहि ' त्ति । ता जाव वसन्तसेणासआसं ज्जेव गच्छामि । (परिक्रम्यावलोक्य च । आकाशे ।). कधं भावरेभिलो | भो भावरेभिल, किंणिमित्तं २४६ (क) ही, अनेन मया कृतं पापमन्यस्य मस्तके निपतितम् । तद्यत्र चारुदत्त उपविशति तत्राहमुपविशामि । चारुदत्त, पश्य पश्य माम् । तद्भण भण मया मारितेति । र्षिण्या श्लोकः ॥ २७ ॥ य इति ॥ २८ ॥ मैत्रेयेति ॥ २९ ॥
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy