SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽङ्कः। २०९ बड़केहि मल्लक्कप्पमाणेहिं कुलेहिं जादे अकजं कलेमि । एव्वं एदं अङ्गीकलावेदं मए भणिदम् । (क) विटः किं कुलेनोपदिष्टेन शीलमेवात्र कारणम् । भवन्ति सुतरां स्फीताः सुक्षेत्रे कण्ट किद्रुमाः ॥ २९ ॥ शकारः-भावे, एशा तव अग्गदो लज्जाअदि, ण मं अङ्गीकलेदि।ता गच्छ।थावलअचेडे मए पिश्टिदे गदे वि । एशे पलाइअ गच्छदि । ता तं गेण्हिअ आअच्छदु भावे । (ख) विट:-(स्वगतम् ।) अस्मत्समक्षं हि वसन्तसेना शौण्डीर्यभावान्न भजेत मूर्खम् । तस्मात्करोम्येष विविक्तमस्या विविक्तविश्रम्भरसो हि कामः ॥ ३० ॥ (प्रकाशम् ।) एवं भवतु । गच्छामि । (क) भावो भट्टकं मारयति । सर्वकालं मया पुष्टो मांसेन च घृतेन च । अद्य कार्ये समुत्पन्ने जातो मे वैरिकः कथम् ॥ भवतु । लब्धो मयोपायः । दत्ता वृद्धशृगालेन शिरश्चालनसंज्ञा । तदेतं प्रेष्य वसन्तसेनां मारयिष्यामि । एवं तावत् । भाव, यत्त्वं मया भणितः, तत्कथमहमेवं बृहत्तरैः मल्लकप्रमाणैः कुलैर्जातोऽकार्य करोमि । एवमेतदङ्गीकारयितुं मया भणितम् । (ख) भाव, एषा तवाग्रतो लज्जते, न मामङ्गीकरोति । तद्गच्छ । स्थावरकचेटो मया ताडितो गतोऽपि । एष प्रपलाय्य गच्छति । तस्मात्तं गृहीत्वागच्छतु भावः । कप्रमाणतया कुलमुपमिनोति । मल्लिका पत्रपुटिका तया कुलस्य महत्त्वं मौादुपमिनोति' इति प्राचीनटीका।जातोऽकार्य करोमि । एवमेतदङ्गीकारयितुं मया भणितम् ॥किं कुलेनेति ॥ २९ ॥ अस्मदिति ॥ ३० ॥णासेण न्यासेन, विनाशेन
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy