SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १६२ मृच्छ चेटी - अज्जए, मिसद्दो विअ सुणीअदि । ता आअदो पव हणो । (क) वसन्तसेना – हजे, गच्छ । तुवरदि मे हिअअम् । ता आदेसेहि पक्खदुआरअम् । (ख) चेटी - एदु एदु अज्जआ । (ग) वसन्तसेना — (परिक्रम्य ।) हजे, वीसम तुमम् । (घ) - चेटी - जं अज्जआ आणवेदि । (ङ) (इति निष्क्रान्ता ।) वसन्तसेना - (दक्षिणाक्षिस्पन्दं सूचयित्वा प्रवहण मधिरुह्य च ।) किं दं फुरदि दाहिणं लोअणम् । अधवा चारुदत्तस्स ज्जेव दंसणं अणिमित्तं पमज्जइस्सदि । (च) वहतं बलीवर्दाः, वहतम् । कथं ग्रामशकटै रुद्धो मार्गः । किमिदानीमत्र करिष्यामि । अरे रे, अपसरत अपसरत । किं भणथ - ' एतत्कस्य प्रवहणम्' इति । एतद्राजश्यालकसंस्थानस्य प्रवहणमिति । तच्छीघ्रमपसरत । कथम्, एषोऽपरः सभिकमिव मां प्रेक्ष्य सहसैव द्यूतपलायित इव द्यूतकरोऽपवार्यात्मानमन्यतोऽपक्रान्तः । तत्कः पुनरेषः । अथवा किं ममैते । त्वरितं गमिष्यामि । अरे रे ग्राम्याः, अपसरत अपसरत । किं भणथ - ' मुहूर्तकं तिष्ठ । चक्रपरिवृत्तिं देहि' इति । अरे रे, राजश्यालकसंस्थानस्याहं शूरश्चक्रपरिवृत्तिं दास्यामि । अथवा एष एकाकी तपस्वी । तदेवं करोमि । एतत्प्रवहणमार्यचारुदत्तस्य वृक्षवाटिकायाः पक्षद्वारके स्थापयामि । एषोऽस्म्यागतः । 1 1 (क) आर्ये, नेमिशब्द इव श्रूयते । तदागतं प्रवहणम् । (ख) चेटि, गच्छ । त्वरयति मे हृदयम् । तदादिश पक्षद्वारम् । (ग) एवेत्वार्या । (घ) चेटि, विश्राम्य त्वम् । (ङ) यदार्याज्ञापयति । (च) किं न्विदं स्फुरति दक्षिणं लोचनम् । अथवा चारुदत्तस्यैव दर्शनमनिमित्तं प्रमार्जयिष्यति । इति चक्रपरिवृत्तिदानार्थम् । एतेन शकारस्य काकनेत्रमुक्तम् (?) । अतोऽपि च 1
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy