________________
१५६
___ मृच्छकटिके चेटी–अजए, जहिं चारुदत्तो । (क) वसन्तसेना-(चेटीं परिष्वज्य ।) सुट्ठ ण निज्झाइदो रात्तीए । ता अज पच्चक्खं पेक्खिस्सम् । हजे, किं पविट्टा अहं इह अब्भन्तरचदुस्सालअम् । (ख)
चेटी—ण केवलं अन्भन्तरचदुस्सालअम् । सव्वजणस्स विहिअअं पविट्टा । (ग)
वसन्तसेना-अवि संतप्पदि चारुदत्तस्स परिअणो । (घ) चेटी-संतप्पिस्सदि । (ङ) वसन्तसेना-कदा । (च) चेटी-जदोअजआ गमिस्सदि । (छ)
वसन्तसेना-तदो मए पढमं संतप्पिदव्वम् । (सानुनयम् ।) हळे, गेण्ह एवं रअणावलिम् । मम बहिणिआए अजाधूदाए गदुअ समप्पेहि । भणिदव्यं च-'अहं सिरिचारुदत्तस्स गुणणिजिदा दासी, तदा तुम्हाणं पि । ता एसा तुह जेव कण्ठाहरणं होदु रअणावली । (ज)
(क) आर्य, यत्र चारुदत्तः । (ख) चेटि, सुष्ठु न निध्यातो रात्रौ । तदद्य प्रत्यक्षं प्रेक्षिष्ये । चेटि, किं प्रविष्टाहमिहाभ्यन्तरचतुःशालकम् ।
(ग) न केवलमभ्यन्तरचतुःशालकम् । सर्वजनस्यापि हृदयं प्रविष्टा । (घ) अपि संतप्यते चारुदत्तस्य परिजनः । (ङ) संतप्स्यति । (च) कदा। (छ) यदार्या गमिष्यति ।
(ज) तदा मया प्रथमं संतप्तव्यम् । चेटि, गृहाणेमां रत्नावलीम् । मम भगिन्या आर्याधूतायै गत्वा समर्पय । वक्तव्यं च-'अहं श्रीचारुदत्तस्य गुणनिर्जिता दासी, तदा युष्माकमपि । तदेषा तवैव कण्ठाभरणं भवतु रत्नावली'।