SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ मृच्छकटि विदूषकः - जं भवं आणवेदि । ( वसन्तसेनामुपगम्य । सादरम् ।) सोत्थि भोदीए । (क) बसन्तसेना – अज्ज, वन्दामि । साअं अज्जस्स । ( विटं प्रति ।) भाव, एसा छत्तधारिआ भावस्स ज्जेव भोदु । (ख) विट: - (स्वगतम् ।) अनेनोपायेन निपुणं प्रेषितोऽस्मि । (प्रकाशम् ।) एवं भवतु । भवति वसन्तसेने, साटोप कूटकपटानृतजन्मभूमेः शाठ्यात्मकस्य रतिकेलिकृतालयस्य । वेश्यापणस्य सुरतोत्सव संग्रहस्य दाक्षिण्यपण्यमुखनिष्क्रयसिद्धिरस्तु ॥ ३६ ॥ ( इति निष्क्रान्तो विट: 1 ) १४६ वसन्तसेना - अज्ज मित्तेअ, कहिं तुम्हाणं जूदिअरो । ( ग ) विदूषकः - (स्वगतम् ) ही ही भो, जूदिअरो त्ति भणन्तीए अलंकिदो पिअवअस्सो । (प्रकाशम् ) भोदि, एसो क्खु सुक्खरुक्खवाडिआए । (घ) - वसन्तसेना – अज्ज, का तुम्हाणं सुक्खरुक्खवाडिआ वुचदि । (ङ) (क) यद्भवानाज्ञापयति । स्वस्ति भवत्यै । (ख) आर्य, वन्दे | स्वागतमार्यस्य । भाव, एषा छत्रधारिका भावस्यैव भवतु । (ग) आर्य मैत्रेय, कुत्र युष्माकं द्यूतकरः । (घ) आश्चर्ये भोः, द्यूतकर इति भणन्त्यालंकृतः प्रियवयस्यः । भवति, एष खलु शुष्कवृक्षवाटिकायाम् । (ङ) आर्य, का युष्माकं शुष्कवृक्षवाटिकोच्यते । आटोपो दम्भः, कूटं माया, कपटं छद्म, अनृतं मृषाभाषणम् । निह्नवप्राकट्यभेदाकूटकपटयोर्भेदः । एतेषां जन्मभूमेः । वेश्यापणो वेश्याव्यवहारः । व्यज्यकेत्यर्थः (?) । दाक्षिण्यपण्यप्रधानं निष्क्रयो मूल्यम् ॥ ३६ ॥ अपि पारयिष्यामि ॥ •
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy