SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः। १११ लंकारअं समप्पइस्सदि, तस्स तुए मदणिआ दादव्वा' । ता सो जेव एदं दे देदित्ति एव्वं अजेण अवगच्छिदव्वम् । (क) शर्विलकः-(स्वगतम् ।) अये, विज्ञातोऽहमनया । (प्रकाशम् ।) साधु आर्यचारुदत्त, साधु । गुणेष्वेव हि कर्तव्यः प्रयत्नः पुरुषैः सदा । गुणयुक्तो दरिद्रोऽपि नेश्वरैरगुणैः समः ॥ २२ ॥ अपि च । गुणेषु यत्नः पुरुषेण कार्यो --- न किंचिदप्राप्यतमं गुणानाम् । गुणप्रकर्षादुडुपेन शंभो रलङ्घयमुल्लङ्घितमुत्तमाङ्गम् ॥ २३ ॥ वसन्तसेना—को एत्थ पवहणिओ । (ख) (प्रविश्य सप्रवहणः) चेटः-अजए, सज्जं पवहणम् । (ग) वसन्तसेना-हले मअणिए, सुदिट्टं मं करेहि । दिण्णासि । आरुह पवहणम् । सुमरेसि मम् । (घ) मदनिका-(रुदती ।) परिच्चत्तम्हि अजआए । (ङ) इति पादयोः पतति ।) (क) अहमार्यचारुदत्तेन भणिता—'य इममलंकारकं समर्पयिष्यति, तस्य त्वया मदनिका दातव्या । तत्स एवैतां ते ददातीत्येवमायेंणावगन्तव्यम् । (ख) कोऽत्र प्रवहणिकः। (ग) आर्य, सज्जं प्रवहणम् । (घ) चेटि मदनिके, सुदृष्टां मां कुरु । दत्तासि । आरोह प्रवहणम् । स्मरसि माम् । (ङ) परित्यक्तास्म्यार्यया। गुणेष्वेवेति ॥ २२ ॥ गुणेविति ॥ २३ ॥
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy