SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः । ८१ चारुदत्तः-वयस्य, सुष्ठु खल्वद्य गीतं भावरेभिलेन । न च भवान्परितुष्टः। रक्तं च नाम मधुरं च समं स्फुटं च भावान्वितं च ललितं च मनोहर च। किंवा प्रशस्तवचनैर्बहुभिर्मदुक्तै रन्तर्हिता यदि भवेद्वनितेति मन्ये ॥ ४ ॥ अपि च । तं तस्य स्वरसंक्रमं मृदुगिरः श्लिष्टं च तन्त्रीस्वनं वर्णानामपि मूर्च्छनान्तरगतं तारं विरामे मृदुम् । हेलासंयमितं पुनश्च ललितं रागद्विरुच्चारितं ___ यत्सत्यं विरतेऽपि गीतसमये गच्छामि, शृण्वन्निव ॥५॥ - विदूषकः-भो वअस्स, आवणन्तररच्छाविभाएसु सुहं कुकरा वि सुत्ता । ता गेहं गच्छम्ह । (अग्रतोऽवलोक्य ।) वअस्स, पेक्ख पेक्ख । एसो वि अन्धआरस्स विअ अवआसं देन्तो अन्तरिक्खपासादादो ओदरदि भअवं चन्दो । (क) चारुदत्तः–सम्यगाह भवान् । असौ हि दत्त्वा तिमिरावकाश मस्तं व्रजत्युन्नतकोटिरिन्दुः । अधिकं सूसूशब्दं करोति । मनुष्योऽपि काकलीं गायन्, शुष्कसुमनोदामवेष्टितो वृद्धपुरोहित इव मन्त्र जपन् , दृढ़ मे न रोचते। (क) भो वयस्य, आपणान्तररथ्याविभागेषु सुखं कुक्कुरा अपि सुप्ताः । तगृहं गच्छावः । वयस्य, पश्य पश्य । एषोऽप्यन्धकारस्येवावकाशं दददन्तरिक्षप्रासादादवतरति भगवांश्चन्द्रः । : रक्तमिति । भावान्वितं रत्यास्पदम् । ललितं लालित्याख्यधर्मविशेषशालि । पिहिता योषिदेव गायति न पुरुष इति भासते ॥४॥ तमिति ॥ ५ ॥ आपणमध्यरथ्याविभागेषु कुकुरा अपि सुप्ताः । ओदरदि अवतरति । अस्ताभिमुखं
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy