SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ७४] [ उत्तराध्ययनसूत्रे-भाग-२ . स्थाने ऊर्ध्वस्थितौ, च पुनरेव निश्चयेन निषीदने-उपविशने, तथैव तुयट्टणे' त्वग्वर्तने अर्थाच्छयने, तथोल्लङ्घनप्रलङ्घने, उल्लङ्घन-तथाविधनिमित्ताद्गर्तादेरुत्क्रमणं तत्र, पुनः प्रलङ्घनं सामान्येन गमनम् तत्र, च पुनरिन्द्रियाणां प्रयुञ्जने श्रोत्र-नेत्र-रसना-नासा-त्वगादीनामिन्द्रियाणां शब्दरूपरसगन्धस्पर्शादिविषयेषु व्यापारणे । तथा संरम्भे मुष्ठ्यादिना ताडने, तथा समारम्भे परितापकारिणि लताद्यभिघाते । तथैव च पुनरारम्भे प्राणिवधकरे यष्ट्यादिप्रयोगे कायं प्रवर्तमानं यतिः साधुर्यतनावान् सन् कायं निवर्तयेत्, सर्वत्र शरीरगुप्तिर्विधेयेत्यर्थः ॥ २५ ॥२६॥ एयाओ पंचसमिईओ, चरणस्स य पवत्तणे । गुत्ती निअत्तणे वुत्ता, असुभत्थेसु सव्वसो ॥२७॥ एताः पञ्च समितयश्चरणस्य-चारित्रस्य प्रवर्तने उक्ताः, सर्वशः-सर्वप्रकारेणाऽशुभार्थेभ्यो व्यापारेभ्यो निवर्त्तने तिस्रो गुप्तय उक्ताः ॥ २७ ॥ एया पवयणमाया, जे सम्मं आयरे मुणी। सो खिप्पं सव्वसंसारा, विप्पमुच्चइ पंडिए ॥ २८ ॥ त्तिबेमि ॥ यो मुनिरेताः प्रवचनमातः सम्यक् जिनाज्ञयाऽऽचरेत्, स मुनिः क्षिप्रं-शीघ्र सर्वसंसाराच्चतुर्गतिभ्रमणाद्विशेषेण प्रमुच्यते-प्रकर्षेण मुक्तो भवति । कीदृशो मुनिः ? पण्डितस्तत्त्वज्ञः, स एवाष्टप्रवचनमातृप्रपालकः स्यादिति भावः । इति सुधर्मास्वामी जम्बूस्वामिनं प्राह- हे जम्बू ! तीर्थङ्करवचसा तवाग्रे ब्रवीमि ॥ २८ ॥ इति प्रवचनमातृकं समित्यध्ययनं चतुर्विंशतितमं सम्पूर्णम् ॥ २४ ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां समित्यध्ययनं चतुर्विंशतितमं सम्पूर्णम् ॥२४॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy