SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ २३, केशिगौतमीयाख्यमध्ययनम् ] [६१ सर्वस्मिन् लोके सर्वेषां प्राणिनां-सर्वजीवानां कः पदार्थ उद्योतं करिष्यति ? प्रकाशं करिष्यति ? न किञ्चित्तादृशं पश्याम इति भावः ॥ ७५ ॥ उग्गओ विमलो भाणू, सव्वलोगप्पभंकरो । सो करिस्सइ उज्जोयं, सव्वलोगंमि पाणिणं ॥७६ ॥ गौतमः प्राह-हे केशीमुने ! सर्वलोकप्रभाकरो विमलो भानुरुद्गतः, स भानुः सर्वस्मिन् लोके सर्वेषां प्राणिनामुद्योतं करिष्यति । सर्वस्मिन् लोके प्रभां करोतीति सर्वलोकप्रभाकरः, सर्वलोकालोकप्रकाशको निर्मलो वादलादिनाऽनाच्छादितो भानुरेव सर्वेषां प्राणिनां सर्वत्रोद्योतं करोति, नान्यः कोऽपि तेजस्वी पदार्थ इति भावः ॥७६ ॥ भाणू य इइ के वुत्ते, केसी गोयममब्बवी।। तओ केसी बुवंतं तु, गोयमो इणमब्बवी ॥७७॥ तदा केशीमुनिर्गौतमं पृच्छति-हे गौतम ! भानुरिति क उक्तः ? केशीमुनिर्गौतममित्यब्रवीत् । ततः केशीमुनिमिति ब्रुवन्तं गौतम इदमब्रवीत् ॥ ७७ ॥ उग्गओ खीणसंसारो, सव्वन्नू जिणभक्खरो । सो करिस्सइ उज्जोयं, सव्वलोगंमि पाणिणं ॥७८ ॥ हे केशीमुने ! क्षीणः संसारो-भवभ्रमणं यस्य स क्षीणसंसार:- क्षयीकृतसंसारः, सर्वज्ञः-सर्वपदार्थवेत्ता, जिनो-रागद्वेषयोविजेता, स भास्करः-सूर्यः सर्वस्मिन् लोकेचतुर्दशरज्ज्वात्मके लोके सर्वेषां प्राणिनामुद्योतं करिष्यति, प्रकाशं करिष्यति ॥ ७८ ॥ साहु गोयम पन्ना ते, छिनो मे संसओ इमो । अन्नोवि संसओ मज्झं तं मे कहसु गोयमा ॥ ७९ ॥ अस्या अर्थस्तु पूर्ववत् ॥७९॥ अथ पुनः केशीश्रमणो गौतमं प्रच्छति सारीरमाणसे दुक्खे, वज्झमाणाण पाणिणं । खेमं सिवं अणाबाहं, ठाणं किं मन्नसि मुणी ॥८०॥ हे गौतममुने ! शारीरिकैः शरीरादुत्पनैः, तथा मानसैर्मनस उत्पनैर्दुःखैर्वध्यमानानांपीड्यमानानां प्राणिनां त्वं क्षेम-व्याध्याधिर-हितम्, शिवं-जरोपदवरहितम्, अनाबाधंशत्रुजनाऽभावात्स्वभावेन पीडारहितम्, एतादृशं स्थानं किं मन्यसे? मां वदेरिति शेषः ॥८०॥ अत्थि एगं धुवं ठाणं, लोगग्गंमि दुरारुहं । जत्थ नत्थि जरा मच्चू, वाहिणो वेयणा तहा ॥८१ ॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy