SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ २२, रथनेमीयमध्ययनम्] [३५ वासुदेवो य त भणई, लुत्तकेसं जिइंदियं । संसारसागरं घोरं, तर कन्ने लहुं लहुं ॥ ३१ ॥ च पुनस्तदा वासुदेवः श्रीकृष्णस्तां राजीमती कन्यां भणति, आशीर्वादं पठति । हे कन्ये ! हे राजीमति ! घोरं-रौद्रं संसारसमुदं लघुलघु-त्वरितं त्वरितं तर, संसारसमुदस्य पारं कुरु । लघुलघु इति सम्भ्रमे-आदरे द्विवचनम् । कीदृशीं राजीमती लुतकेशां-कृतलोचां, पुनः कीदृशी ? जितेन्द्रियां साध्वीमित्यर्थः ॥ ३१ ॥ सा पव्वइया संती, पव्वावेसी तहिं बहुं । सयणं परियणं चेव, सीलवंता बहुस्सुया ॥३२॥ सा राजीमती प्रव्रजिता सती-गृहीतदीक्षा सती, तत्र द्वारिकायां बहून् स्वजनान्स्वज्ञातीन् स्त्रीजनान्, च पुनः परिजनान् दास्यादिस्त्रीजनान् प्रावाजयत्, स्वसार्थेऽपरानपि दारान् प्रव्राजयामासेत्यर्थः । कीदृशी सा ? शीलवती, पुनः कीदृशी ? बहुश्रुता-प्रचुरकृतज्ञानाभ्यासा ॥ ३२॥ . गिरिं रेवइयं जंती, वासेणुल्ला उ अंतरा । वासंते अंधयारंमि, अंतो लयणस्स सा ठिया ॥३३॥ ___ सा राजीमत्येकदा स्वामिवन्दनार्थं रैवतकं गिरिं-गिरनारपर्वतं यान्ती 'लयनस्यगिरिगुहागृहस्यान्तर्मध्ये स्थिता । क्व सति ? वर्षति मेघेऽन्धकारे सति, मेघान्धकारेण दक्प्रचारे निरुद्धे सति, कीदृशी सा ? अन्तरा अर्धमार्गे 'वासेणेति' वर्षाभिरुल्लाऽऽर्दा क्लीन्नसर्वचीवरा ॥ ३३ ॥ चीवराणि विसारंती, जहाजाइ त्ति पासिया । रहनेमी भग्गचित्तो, पच्छा दिट्ठो अतीइ वि ॥३४॥ रथनेमिर्भग्नचित्तोऽभूत्, संयमाच्चलितमना अभूत् । किं कृत्वा ? चीवराणि सार्दाणि शरीरादुत्तार्य विस्तारयन्तीं यथाजातामित्येवंरूपां निर्वस्त्रां तां राजीमतीं दृष्ट्वा, तथा राजीमत्यापि स रथनेमिश्चलचित्तः पश्चाद् दृष्टः, पूर्वमन्धकारे सति न दृष्टः । अन्यथा यदि पूर्वं दृष्टोऽभविष्यत्, तदैकाकिनी तत्र न प्राविक्षदिति भावः ॥ ३४ ॥ भीया य सा तर्हि दटुं, एगते संजयं तयं । बाहार्हि काउं संगोफं, वेवमाणी निसीयई ॥३५॥ १णं - अन्यसंस्करणे ॥२ असकृत् सम्भ्रमे - ७/४/७२ सिद्धहैमसूत्र । आ सूत्रथी द्वित्व कर्यु छे. ३ विश्रामगृहस्य।
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy