SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ३२] सारथिं किमब्रवीदित्याह [ उत्तराध्ययनसूत्रे - भाग - २ कस्स अट्ठा इमे पाणा, एते सव्वे सुहेसिणो । वाडेहिं पंजरेहिं च, संनिरुद्धा य अच्छहि ॥ १६ ॥ हे सारथे ! इमे प्रत्यक्षं दृश्यमानाः सर्वे प्राणा वाटकैश्च पुनः पञ्जरैः सन्निरुद्धाअत्यन्तं नियन्त्रिताः कस्यार्थं कस्य हेतोः ? अच्छहि' इति तिष्ठन्ति । कीदृशा इमे प्राणा: ? सुखार्थिनः, सर्वे संसारिणो जीवाः सुखार्थिनः सन्ति, किमर्थं दुःखिनः क्रियन्ते ? भगवान् जानन्नपि जीवदयाप्रकटीकरणार्थं सारथिं पप्रच्छेति भावः ॥ १६ ॥ अह सारही तओ भाइ, एए भद्दा उ पाणिणो । तुज्जं विवाहकज्जंमि, भोयावेडं बहुं जणं ॥ १७ ॥ - अथ नेमिकुमारवाक्यश्रवणानन्तरं ततः सारथिर्भणति, हे स्वामिन्नेते भद्राः प्राणिनो युष्माकं विवाहकार्ये बहुजनान् यादवलोकान् भोजयितुमेकत्र मेलिताः सन्ति ॥ १७ ॥ सोऊण तस्स वयणं, बहुपाणिविणासणं । चिंतेइ से महापन्ने, साणुक्कोसे जिए हिओ ॥ १८ ॥ 'स' इति स नेमिकुमारस्तस्य सारथेर्वचनं श्रुत्वा चिन्तयति । कीदृशः स ? महाप्राज्ञो - महाबुद्धिमान्, पुनः कीदृशः सः ? जीवे हितो- जीवविषये हितेप्सुः, पुनः कीदृश: ? सानुक्रोशः, सह अनुक्रोशेन वर्तते इति सानुक्रोश:- सदयः, अथवा जीवे हि निश्चयेन सानुक्रोशः - सकरुणः, तु शब्दः पादपूरणे, कीदृशं सारथेर्वचनं ? बहुप्राणिविनाशनंबहुजीवानां विघातकारकम् ॥ १८ ॥ तदा नेमिकुमारः किं चिन्तयतीत्याह - जइ मज्झ कारणा एए, हन्नंते सुबहु जिया । न मे एयं तु निस्सेयं, परलोए भविस्सई ॥ १९॥ यदि मम विवाहादिकारणेनैते सुबहवः - प्रचुरा जीवा हनिष्यन्ते मारयिष्यन्ते, तदैतद्धिसाख्यं कर्म परलोके - परभवे निःश्रेयसं कल्याणकारिन भविष्यति । परलोकभीरुत्वस्यात्यन्तमभ्यस्ततयैवमभिधानम्, अन्यथा भगवतश्चरमदेहत्वादतिशयज्ञानत्वाच्च कुत एवंविधा चिन्तेति भावः ॥ १९ ॥ सो कुंडलाण जुअलं, सुत्तगं च महाजसो । आभरणाणि य सव्वाणि, सारहिस्स पणामए ॥ २० ॥ नेमकुमारो महायशाः, नेमिनाथस्याभिप्रायात् सर्वेषु जीवेषु बन्धनेभ्यो मुक्तेषु सत्सु सर्वाण्याभरणानि सारथये प्रणामयति - ददाति । कानि तान्याभरणानि ? कुण्डलानां
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy