SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ३०] [उत्तराध्ययनसूत्रे-भाग-२ प्रथमसंस्थानवान्, यः पद्मासने स्थितः सन् चतुष्षु पार्वेषु सदृशरीरप्रमाणो भवति, स समचतुरस्त्रसंस्थानवानुच्यते पुनः कीदृशः ? झषोदरः-झसस्य इव उदरं यस्य स झसोदरो। अथ तस्यारिष्टनेमिकुमारस्य केशवः-कृष्णो राजीमती कन्यां भार्यायै याचते । कृष्णदेवो राजीमत्या जनकपार्वे राजीमती कन्यां नेमिनाथस्य भार्यार्थं याचते इति भावः ॥६॥ अह सा रायवरकन्ना, सुसीला चारुपेहिणी । सव्वलक्खणसंपन्ना, विज्जुसोयामणिप्पभा ॥ ७ ॥ अथानन्तरं सा राजवरकन्या राजीमती कीदृशी वर्तते ? तद्वर्णनमाह-राजसु वरो राजवरः, षोडशसहस्रमुकुटबद्धभूपेषु श्रेष्ठ उग्रसेनो राजा, तस्य कन्या पुत्री राजवरकन्या । सा कीदृशी ? सुशीला-शोभनाचारा, पुनः कीदृशी? चारुप्रेक्षणी, चारु प्रेक्षणमवलोकनं यस्याः सा चारुप्रेक्षणी सुन्दरावलोकना, सुन्दरनयना वा । पुनः कीदृशी? सर्वलक्षणसम्पन्ना, चतुःषष्टिकामिनीकलाकोविदा, पुनः कीदृशी ? विद्युत्सौदामिनीप्रभा, विशेषेण द्योतते इति विद्युत्, सा चासौ सौदामिनी च विद्युत्सौदामिनी, तद्वत्प्रभा यस्याः सा विद्युत्सौदामिनीप्रभा, स्फुरद्विद्युत्कान्तिः ॥७॥ अहाह जणओ तीसे, वासुदेवं महड्डियं । इहागच्छउ कुमारो, जा से कन्नं दलामहं ॥ ८ ॥ अथ कृष्णेन नेमिकुमारार्थ कन्याया याचनानन्तरं तस्या राजीमत्या जनको महर्द्धिकं वासुदेवं कृष्णमाह-हे वासुदेव ! कुमारोऽरिष्टनेमिरिहास्मद्गृहे आगच्छतु, 'जा' इति येन कारणेन 'से' इति तस्मै अरिष्टनेमिकुमाराय तां राजीमती कन्यामहं ददामि । आसन्नक्रोष्टुकिनैमित्तिकादिष्टे लग्ने विवाहविधिनोपढौकयामि ॥८॥ सव्वोसहीहिं हविओ, कयकोउअमंगलो । दिव्वजुअलं परिहिओ, आहरणेहिं विभूसिओ॥९॥ अथारिष्टनेमिकुमारः क्रोष्टक्यर्पितलग्ने सर्वाभिरौषधीभिः-जयाविजयाशल्यविशल्यर्द्धिवृद्ध्यादिभिः स्तपितः, पुनः कृतकौतुकमङ्गलः, पुनः कीदृशः ? परिधृतदिव्ययुगलः, परिहितं दिव्यं विवाहप्रस्तावाद्देवदूष्ययुगलं येन स परिहितदिव्ययुगलः, प्राकृतत्वाच्छाब्दविपर्ययः । पुनः कीदृशः ? आभरणैः कुण्डलमुकुटहारादिभिर्विभूषितोऽलङ्कृतः ॥९॥ मत्तं च गंधहत्थि च, वासुदेवस्स जिट्ठगं । आरूढो सोहई अहियं, सिरे चूडामणि जहा ॥१०॥ च पुनररिष्टनेमिकुमारो वासुदेवस्य ज्येष्ठकं मत्तं गन्धहस्तिनमारूढोऽधिकं शोभते । क इव ? शिरसि-मस्तके चूडामणिरिव, यथा मस्तके मुकुटः शोभते, तथा नेमिः सर्वेषां यादवानां मध्ये चूडामणिसदृशो विराजते ॥१०॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy