SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ॥ २२ रथनेमीयमध्ययनम् ॥ पूर्वस्मिन्नध्ययने विविक्तचर्या धृतिमता कार्या, तत्र च कदाचिन्मनः परिणामाद्धर्माद्भ्रष्टा भवन्ति तदा रथनेमिवच्चरणे धृतिराधेया, तद्दृष्टान्तमाह-तत्र श्रीनेमिनाथेन कस्मिन् भवे तीर्थङ्करनामकर्म निबद्धमिति शिष्यकौतुकापनोदाय श्रीनेमिचरितं लेशतो लिख्यते एकस्मिन् सन्निवेशे ग्रामाधिपतिसुतो धननामा कुलपुत्र आसीत्, तन्मातुलदुहिता धनवतीनाम्नी तस्य भार्या । अन्यदा भार्यासहितः कुलपुत्रो ग्रीष्मकाले मध्याह्नसमये प्रयोजनवशेन गतोऽरण्यम् । तत्रैकं पथः परिभ्रष्टं क्षुधातृषापरिश्रमातीरेकनिमिलितलोचनं भूमितलमतिंगतं कृशशरीरं मुनिवरं ददर्श । तं च दृष्ट्वा स कुलपुत्र एवं चिन्तितवान्अहो ! एष महातपस्वीदृशीं विषमावस्थामापन्नः, ततस्तं जलेन सिक्तवान्, चेलाञ्चलेन वीजितवांश्च, स्वास्थ्यमापन्नो नीतः स्वग्रामम्, प्रतिजागरितश्चषधपथ्याहारादिभिः । मुनिनापि दत्त उपदेश:, यथेह दुःखप्रचुरे संसारे परलोकहितमवश्यं जनेन कर्तव्यम् । ततो भवद्भ्यामपि परमांस-मद्या -ऽऽखेटकादिनियमं कर्तव्यं यदि पालयितुं शक्तौ, यतो बहुदोषाण्येतानि, यदुक्तम् तथा अपि च तथा - पंचिदियवहभूयं मंसं दुग्गंधमसुइबीभच्छं । रक्खपरितुलिय भक्खग, भीईजणयं कुगईमूलं ॥ १ ॥ गुरुमोहकलहनिद्दा, परिहर उवहासरोगभयहेऊ । मज्जं दुग्गइमूलं, हिरिसिरिमहधम्मनासकरं ॥ २ ॥ 'मज्जे महुंमि मंसंमि, नवणीयंमि चउत्थए । उप्पज्जंति असंखा, तव्वण्णा जत्थ जंतुणो ॥ ३ ॥ 'सपरोवघायजणणी, इहेव तह नरयतिरियगइमूलं । देहमारणस्स य हेऊ, पावद्धी वेरवुड्ढिकरा ॥ ४ ॥ इदं श्रुत्वा संविग्नाभ्यां ताभ्यां भणितम्, भगवन् ! देह्यस्माकं गृहस्थावस्थोचितं धर्मम् । यतिना तु सम्यक्त्वमूलद्वादशव्रतरूपो धर्मस्तयोर्दत्तः, उक्तं च I १ पतितं । २ संभाळ लीधी ३ पञ्चेन्द्रियवधभूतं, मांसं दुर्गन्धमशुचिबीभत्सम् । रक्षः परितुलितो भक्षकः, भीतिजनकं कुगतिमूलम् ॥ १ ॥ ४ गुरुमोहकलहनिदं परिहर उपहासरोगभयहेतुम् । मद्यं दुर्गतिमूलं, ही श्री मति-धर्मनाशकरम् ॥ २ ॥ ५ मद्ये च मांसे नवनीते चतुष्टये । उत्पद्यन्ते असङ्ख्येयास्तद्वर्णा यत्र जन्तवः ॥ ३ ॥ ६ स्वपरोपघातजननी, इहैव तथा नरक- तिर्यग्गतिमूलम् । देहमारणस्य च हेतु, पापर्द्धिवैरवृद्धिकरा ॥४॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy