________________
२०, महानिर्ग्रन्थीयमध्ययनम्]
[१३ अथ यत्कृत्यं तदाह - सुच्चाण मेहावि सुभासियं इमं, अणुसासणं नाणगुणोववेयं । मग्गं कुसीलाण जहाय सव्वं, महानियंठाण वए पहेणं ॥५१॥
हे मेधाविन् ! हे पण्डित ! हे राजन् ! इदं सुष्ठ भाषितं सुभाषितमनुशासनमुपदेशं श्रुत्वा सर्वं कुशीलानां मार्ग 'जहाये' ति त्यक्त्वा महानिर्ग्रन्थानां - महासाधूनां पथि-मार्गे व्रजेस्त्वं चरेः । कीदृशमनुशासनम् ? ज्ञानगुणोपपेतम्, ज्ञानस्य गुणा ज्ञानगुणास्तैरुपपेतं ज्ञानगुणोपपेतम् ॥५१॥
चरित्तमायारगुणन्निए तओ, अणुत्तरं संजमपालियाणं । निरासवे संखवियाण कम्म, उवेइ ठाणं विउलुत्तमं धुवं ॥५२॥
ततस्तस्मात्कारणान्महानिर्ग्रन्थमार्गगमनान्निराश्रवो मुनिर्महाव्रतपालकः साधुर्विपुलमनन्तसिद्धानामवस्थानादसङ्कीर्णम्, उत्तमं सर्वोत्कृष्टम्, पुनधुवं-निश्चलं शाश्वतमेतादृशं मोक्षस्थानमपैति-प्राप्नोति।कीदृशः साधः? चारित्राचारगणान्वितः, चारित्रस्याचारश्चारित्राचारश्चारित्रसेवनम्, गुणा-ज्ञानशीलादयः, चारित्राचारश्च गुणाश्च चारित्राचारगुणास्तैरन्वितश्चारित्राचारगुणान्वितः ।अत्र मकार: प्राकृतत्वात् । किं कृत्वा साधुर्मोक्षं प्राप्नोति ? अनुत्तरं प्रधानं भगवदाज्ञाशुद्धं संयमं सप्तदशविधं पालयित्वा । पुनः किं कृत्वा ? कर्माण्यष्टावपि संक्षिपय्य-क्षयं नीत्वा । एतावता चारित्राचारज्ञानादिगुणयुक्तः, अत एव निरुद्धाश्रवः प्रधानं संयम प्रपाल्य सर्वकर्माणि संक्षयं नीत्वा मोक्षं प्राप्नोतीत्यर्थः ॥५२॥
अथोपसंहारमाहएवुग्गदंतेवि महातवोहणे, महामुणी महापइन्ने महायसे । महानियंठिज्जमिणं महासुयं, से कहेइ महया वित्थरेण ॥५३॥
एवममुना प्रकारेण श्रेणिकेन राज्ञा पृष्टः सन् स महामुनिर्महासाधुर्महता विस्तरेणबृहता व्याख्यानेन महानिर्ग्रन्थीयं महाश्रुतमकथयत् । महान्तश्च ते निर्ग्रन्थाश्च महानिर्ग्रन्थाः, तेभ्यो हितं महानिर्ग्रन्थीयम्, महामुनीनां हितमित्यर्थः । कीदृशः सः ? उग्रः कर्मशत्रुहनने बलिष्ठः, पुनः कीदृशः सः? दान्तो-जितेन्द्रियः, पुनः कीदृशः? महातपोधनो महच्च तत्तपश्च महातपः महातपो धनं यस्य स महातपोधनः, पुनः कीदृशः ? महाप्रतिज्ञो - व्रते दृढप्रतिज्ञाधारकः, पुनः कीदृशः ? महायशा - महाकीर्ति ॥५३॥
तुट्ठो हु सेणिओ राया, इणमुदाह कयंजली।
अणाहत्तं जहाभूयं, सुट्ठ मे उवदंसियं ॥५४॥ श्रेणिको राजा तुष्टो 'हु' इति निश्चयेनेदमुदाहेदमवादीत्-कीदृशः श्रेणिकः ?