SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ ३६, जीवाजीवविभक्त्याख्यमध्ययनम् ] [२३३ सिद्धाः क्व बुन्दि-शरीरं त्यक्त्वा कुत्र गत्वा 'सिज्झइ' इति सिद्धयन्ति ? प्राकृतत्वाद्वचनव्यत्ययः । क्व सिद्धजीवा देहं त्यक्त्वा निष्ठितार्था भवन्ति ? ॥५५॥ एतत्प्रश्नस्योत्तरमाह अलोए पडिहया सिद्धा, लोयग्गे य पइट्ठिया। इहं बुन्दि चइत्ताणं, तत्थ गंतूण सिज्झइ ॥५६ ॥ सिद्धा अलोके केवलाकाशलक्षणे प्रतिहताः स्खलिताः सन्ति । तत्र हि धर्मास्तिकायाऽभावेन तेषां गतेरसम्भवोऽस्ति । तथा पुनः सिद्धा लोकाने लोकस्योपरितने भागे प्रतिष्ठिताः सदाऽवस्थिताः सन्ति । इह तिर्यग्लोकादौ बुन्दि-शरीरं त्यक्त्वा तत्र लोकाग्रे गत्वा सिद्धयन्ति, पूर्वापरकालस्याऽसम्भवाद्यत्रैव समये भवक्षयस्तस्मिन्नेव समये मोक्षस्तत्र गतिश्च भवतीति भावः ॥५६॥ अथ लोकाग्रे चेषत्प्राग्भारा यत्संस्थाना यत्प्रमाणा यद्वर्णा च वर्तते, तत्सर्वं प्राह- बारसहिं जोयणेहिं, सव्ववस्सुवरिं भवे, । ईसीपब्भारनामा उ, पुढवी छत्तसंठिया ॥ ५७ ॥ पणयालसयसहस्सा, जोयणाणं तु आयया । तावइयं चेव वित्थिण्णा, तिगुणो 'साहियपरिरओ॥५८ ॥ अट्ठजोयणबाहल्ला, एसा मज्झमि वियाहिया । परिहायंती चरिमंते, मच्छियपत्ताओ तणुयरी ॥ ५९ ॥ अज्जुणसुवनगमई, सा पुढवी निम्मला सहावेणं । उत्ताणयछत्तयसंठिया य, भणिया जिणवरेहिं ॥ ६० ॥ संखंककुंदसंकासा, पंडुरा निम्मला सुभा । सीआओ जोयणे तत्तो, लोयंतो उ वियाहिओ ॥ ६१ ॥ ॥पञ्चभिः कुलकम् ॥ एताभिः पञ्चभिर्गाथाभिः सिद्धशिलामीषत्प्राग्भारानाम्नी वर्णयति-सर्वार्थसिद्धस्य नाम्नो विमानस्योपरि द्वादशभिर्योजनैरीषत्पाग्भारानाम्नी पृथ्वी भवेत् । कीदृशी सा भूमिः ? छत्रसंस्थिता, छत्रमातपत्रं तस्य संस्थितं संस्थानमाकृतिर्यस्याः सा छत्रसंस्थिता, इह सामान्योक्तावपि छत्रमुत्तानमेव ज्ञेयम् ॥५७॥ १ तस्सेवपरिरओ - अन्यसंस्करणे।
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy