SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २२८] . [ उत्तराध्ययनसूत्रे-भाग-२ रसभेदानुक्त्वा स्पर्शभेदानाह फासओ कक्खडे जे उ, भइए से उ वन्नओ। गंधओ रसओ चेव, भइए संठाणओवि य ॥ ३४ ॥ यः पुद्गलः स्पर्शतः कर्कशो भवति, स च पुद्गलो वर्णतो भाज्यः, गन्धतो रसतश्च भाज्यः, एवं संस्थानतोऽपि भाज्यः । तथाहि-एकः कर्कश: पाषाणादिसदृशस्पर्शपुद्गलः, तत्र पुद्गले वर्णानां पञ्चानां मध्ये केचिद्वर्णाः सन्ति - भवन्ति । गन्धयोरुभयोर्मध्ये एकः कश्चिद्गन्धो भवति । पञ्चानां रसानां मध्ये केचिदसा भवन्ति । संस्थानानां पञ्चानां मध्येऽन्यतरदेकं संस्थानं भवतीति भावः ॥ ३४ ॥ फासओ मउए जे उ, भइए से उ वन्नओ। गंधओ रसओ चेव, भइए संठाणओवि य ॥ ३५ ॥ यः पुद्गलः स्पर्शतो मृदुर्भवति, स पुद्गलो वर्णतो गन्धतो रसतः संस्थानतश्च भाज्यः, खरस्पर्शवद् ज्ञेय इत्यर्थः ॥ ३५ ।। फासओ गुरुए जे उ, भइए से उ वन्नओ। गंधओ रसओ चेव, भइए संठाणओवि य ॥३६ ॥ यः पुद्गलः स्पर्शतो गुरुर्भवति, स पुद्गलो वर्णतो गन्धतो रसतश्च संस्थानतश्च भाज्यः ॥ ३६॥ फासओ लहुओ जे उ, भइए से उ वन्नओ। गंधओ रसओ चेव, भइए संठाणओवि य ॥३७॥ यः पुद्गलः स्पर्शतो लघुर्भवति, स पुद्गलो वर्णतो गन्धतो रसतः संस्थानतश्च भाज्यः ॥३७॥ फासओ सीयए जे उ, भइए से उ वन्नओ । गंधओ रसओ चेव, भइए संठाणओवि य॥३८॥ यः पुद्गलः स्पर्शतः शीतलो भवति, स पुद्गलो वर्णतो गन्धतो रसतः संस्थानतश्चापि भाज्यः ॥ ३८॥ फासओ उण्हओ जे उ, भइए से उ वन्नओ। गंधओ रसओ चेव, भइए संठाणओवि य ॥ ३९ ॥ यः पुद्गलः स्पर्शत उष्णो भवति, स पुद्गलो वर्णतो गन्धतो रसतः संस्थानतश्चापि भाज्यः ॥३९॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy