SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ३६, जीवाजीवविभक्त्याख्यमध्ययनम् ] सीया उण्हा य निद्धा य, तहा लुक्खा य आहिया । इइ फासपरिणया, एए पुग्गला समुदाहिया ॥ २० ॥ तथा पुनः केचित्पुद्गलाः शीता हिमसदृशाः, च पुनरुष्णा अग्निसदृशा:, च पुनः स्निग्धा घृतसदृशा:, तथा रूक्षाश्चाख्याताः । इत्यमुना प्रकारेणैते पुद्गलाः स्पर्शपरिणता अष्टप्रकारेण तीर्थकरैरुदाहृताः ॥ २० ॥ संठाणपरिणया जे उ, पंचहा ते पकित्तिया । परिमंडला य वट्टा, तंसा चउरंसमायया ॥ २१ ॥ [ २२५ . ये तुपुद्गलाः संस्थानपरिणतास्ते पञ्चधा प्रकीर्तिताः, ते के ? तानाह-‍ - परिमण्डला कङ्कणाकाराः, पुनर्वर्त्तुला लड्डुकाकृतयः, पुनस्तिस्राः सङ्घाटकाकाराः, पुनश्चतुरस्राश्चतुष्कोणाश्चतुष्किकाकाराः, तथा पुनरायताः प्रलम्बा रज्ज्वाकाराः ॥ २१ ॥ सम्प्रत्येषामेव परस्परं सम्बन्धमाह वणओ जे भवे किण्हे, भइए जे उ गंधओ । रसओ फासओ चेव, भइए संठाणओवि य ॥ २२ ॥ पुद्गलो वर्णतः कृष्णः कज्जलनिभो भवेत्, स कृष्णः पुद्गलो गन्धतो भाज्य: सुगन्धो भवति, दुर्गन्धोऽपि भवति, न तु सुरभिरेव, न तु दुरभिरेव, किन्तु कृष्णवर्णपुद्गलः सुगन्धोऽपि भवति, दुर्गन्धोऽपि भवति । सुरभिर्दुरभित्वेन परिणमति, दुरभिः सुरभित्वेन परिणमति, न तु नियतगन्ध एवेति भावः । एवं रसतः स्पर्शतश्चैव भाज्यः रसानां पञ्चानां मध्ये एकस्मादसादसान्तरपरिणतो भवति, स्पर्शानामष्टानां मध्ये एकस्मात्स्पर्शान्तरपरिणतो भवतीति भावः । तथा पुनः स एव पुद्गलः संस्थानतोऽपि भाज्यः, पञ्चानां संस्थानानां मध्ये एकस्मात्संस्थानान्तरपरिणतो भवतीति भावः । अत्र गन्धौ द्वौ रसाः पञ्च, स्पर्शा अष्टौ संस्थानानि पञ्च मीलिता विंशतिः, इत्येक एव कृष्णवर्णो विंशतिविधो भवति ॥२२॥ अथ नीलस्य भङ्गानाह वन्नओ जे भवे नीले, भइए से उ गंधओ । रसओ फासओ चेव, भइए संठाणओवि य ॥ २३ ॥ यः पुद्गलो वर्णतो नीलो भवति, स पुद्गलोऽपि गन्धतः सुरभिगन्धदुरभिगन्धतो भाज्यः । च पुनः स पुद्गलो रसतः पञ्चविधतिक्तकटुकादितो भाज्यः, च पुनः स्पर्शतोऽष्टविधः खरमृदुशीतोष्णादितो भाज्य: । संस्थानतश्च पञ्चविधपरिमण्डलादितो भाज्यः, तदा विंशतिविधो भवति ॥ २३ ॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy