SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ ३५, अनगारमार्गगत्याख्यमध्ययनम् ] [२१७ अथाहारविधिमाह तहेव भत्तपाणेसु, पयणे पयावणेसु य । पाणभूयदयट्ठाए, न पए न पयावए ॥ १० ॥ तथैव साधुभक्तपानेष्वन्नपानीयेषु पचने पाचने च त्रसानां स्थावराणां च वधत्वेन प्राणभूतदयार्थं - त्रसस्थावराणां दयार्थं स्वयमन्नपानीयं न पचेत् तथा साधुर्नानपानीयमन्येन पाचयेत् ॥१०॥ . अन्नपानीयपचनपाचने जीवहिंसा दर्शयति जलधन्ननिस्सिया जीवा, पुहवीकट्ठनिस्सिया । हम्मति भत्तपाणेसु, तम्हा भिक्खु न पयावए ॥११॥ भक्तपानेषु पच्यमानेषु तथा पाच्यमानेषु सत्सु जलधान्यनिश्रितास्तत्रस्था जीवास्तथा पृथ्वीकाष्टनिश्रिता जीवा हन्यन्ते । जलं च धान्यं च जलधान्यं, तत्र निश्रितास्तत्रोत्पन्नास्तजगताः, जलरूपा एकेन्द्रिया जीवाः, तथा तत्रभवाः पूतरकादयो जीवाः, ते पचनकाले ततोऽन्यत्र निश्रिता वा हन्यन्ते, यतो हि ये जीवा यत्र तिष्ठन्ति, यत्रोत्पद्यन्ते तत्र स्थिता एव ते सुखिनो भवन्ति । तदाश्रयनाशे तेषामपि नाशो भवति । एवं पृथ्वी च काष्टं च पृथ्वीकाष्टे, तत्र निश्रिताः पृथ्वीकाष्टनिश्रिता घूणाद्या हन्यन्ते । भक्तपानपाके हि पृथ्वीकायवनस्पतिकाययोविराधना स्यादेव, तस्मात् त्रसस्थावरविनाशहेतुत्वाद् भिक्षुर्न पचेन्न पाचयेदिति भावः ॥ ११ ॥ अथाग्नेरारम्भो हिंसाकारणमाह विसप्पे सव्वओ धारे, बहुपाणविणासणे । नत्थि जोइसमे सत्थे, तम्हा जोइं न दीवए ॥१२॥ साधुस्तस्मात्कारणाज्ज्योतिर्न दीपयेत्, अग्नि न प्रज्ज्वालयेत्, किं कारणं? तदाहज्योतिःसममग्नितुल्यं बहुप्राणिविनाशनमन्यच्छस्त्रं नास्ति, अग्निः सर्वान् प्राणिनो विनाशयति । कथंभूतं ज्योतिःशस्त्रं ? विसर्पद्विशेषेण सर्पतीति स्फुरतीति विसर्पत्, प्रसरणशीलम् । पुनः कीदृशं ज्योतिःशस्त्रं? सर्वतो धारं, सर्वतश्चतुर्दिक्षु धारा शक्तिर्यस्य तत्सर्वतोधारं, सर्वदिशास्थितजीवविनाशहेतुकमित्यर्थः । प्राकृतत्वादत्र लिङ्गव्यत्ययः । पचनपाचनं त्वग्निप्रज्वालनं विना न स्यात्, अग्निप्रज्वालननिषेधेन पचनपाचनयोनिषेधः । पुनरग्निप्रज्वालननिषेधेन च शीतकालादावप्यग्निसमारम्भो निषिद्धः । यदा पचनपाचनाग्निप्रज्वालनादिनिषेधो भवति, तदा क्रयविक्रयाभ्यां निर्वाहः क्रियते, अतः साधूनां तन्निषेधोऽप्युच्यते ॥१२॥ हिरण्णं जायरूवं च, मणसावि न पत्थए । - समलेझुकंचणे भिक्खू, विरए कयविक्कए ॥ १३ ॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy