SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १०] [ उत्तराध्ययनसूत्रे-भाग-२ चिरंपि से मुंडरुई भवित्ता, अथिरव्वए तवनियमेहि भट्ठे। चिरंपि अप्पाण किलेसइत्ता, न पारए होइ हु संपराए ॥४१॥ स पूर्वोक्तः पञ्चसमितिरहितो मुन्याभासश्चिरं मुण्डरुचिर्भूत्वा, आत्मानमपि चिरं क्लेशयित्वा - क्लेशे पातयित्वा, 'हु' इति निश्चयेन 'संपराए' संसारे पारगो न भवति । कीदृशः सः ? अस्थिरवतोऽस्थिराणि व्रतानि यस्य सोऽस्थिरव्रतः । पुनः कीदृशः सः? तपोनियमभ्रष्टः । यः कदापि तपो न करोति, तथा पुनर्नियममभिग्रहादिकं च न करोति, केवलं द्रव्यमुण्डो भवति, स संसारस्य पारं न प्राप्नोतीत्यर्थः ॥ ४१ ॥ पोल्ले च मुट्ठी जह से असारो, अयंतिए कूड़कहावणे व । राढामणी वेरुलियप्पगासे, अमहग्घए होइ हु जाणएसु ॥ ४२ ॥ स पूर्वोक्तमुण्डरुचिरसारो भवति, अन्तःकरणे धर्माऽभावादिक्तोऽकिञ्चित्करो भवति । स क इव ? पोल्लो मुष्टिरिव, यथा रिक्तो मुष्टिरसारो मध्ये शुषिर एव, तथा स मुण्डरुचिः कूटकार्षापण इवाऽसत्यनाणकमिवाऽयन्त्रितो भवति, न यन्त्रितोऽयन्त्रितोऽनादरणीयो निर्गुणत्वादुपेक्षणीयः स्यादित्यर्थः । उत्तमर्थमर्थान्तरन्यासेन दृढयति-'हु' यस्मात्कारणात् राढामणि:-काचमणिः 'जाणएसु' इति ज्ञातृकेषु-मणिपरीक्षकनरेषु वैडूर्यप्रकाशोऽमहर्घको भवति, बहुमूल्यो न भवति । वैडूर्यमणिवत् प्रकाशो यस्य स वैडूर्यमणिप्रकाशः, वैडूर्यमणिसदृग्तेजाः ।महत्यर्घा यस्य स महर्घः, महर्घ एव महार्घकः, न महाघकोऽमहाघकोऽबहुमूल्य इत्यर्थः । यथा मणिज्ञेषु वैडूर्यमणिर्बहुमौल्यः स्यात्तथा काचमणिर्बहुमौल्यो न स्यात् । एवं धर्महीनो मुनिः साधुर्गुणज्ञेषु यथा सद्धर्माचारयुक्तः साधुर्वन्दनीयः स्यात्, तथा स मुण्डरुचिर्वन्दनीयो न स्यादिति भावः ॥ ४२ ॥ कुसीललिंगं इह धारयित्ता, इसिज्झयं जीविय बूहइत्ता । असंजए संजयलप्पमाणे, विणिघायमागच्छइ से चिरंपि ॥ ४३ ॥ 'से' इति स साध्वाचाररहित इह संसारे चिरं-चिरकालं यावद्विनिघातमागच्छतिपीडां प्राप्नोति । किं कृत्वा ? कुशीललिङ्ग-पार्श्वस्थादीनां चिन्हं धारयित्वा, पुनर्जीविकायैआजीविकार्थम् ऋषिध्वजं रजोहरणमुखपोतिकादिकं बृहयित्वा-वृद्धि प्रापयित्वा, विशेषण निघातं विनिघातं विविधपीडाम् स किं कुर्वाणः ? असंयतः सन्नहं संयत इति लालप्यमानः, असाधुरपि साधुरहमिति ब्रुवाणः ॥ ४३ ॥ विसं तु पीयं जह कालकूटं, हणाइ सत्थं जह कुग्गहीयं । एमेव धम्मो विसओववन्नो, हणाइ वेयाल इवाविवन्नो ॥४४॥ हे राजन् ! यथा कालकूटो-महाविषः पीतः सन् ‘हणाइ' इति हन्ति, पुनर्यथा कुगृहीतं
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy