SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ ३४, लेश्याख्यमध्ययनम्] [२१३ जा पम्हाए ठिई खलु, उक्कोसा सा उसमयमब्भहिया। जहन्नेणं सुक्काए, तेत्तीसमुहुत्तमब्भहिया ॥ ५५ ॥ या पद्मलेश्यायाः खलु निश्चयेनोत्कृष्टा स्थितिवर्तते, सैव स्थितिरेकसमयाभ्यधिका जघन्येन शुक्लायाः स्थितिर्भवति । इयं शुक्ललेश्यायाः स्थितिः षष्ठस्य लान्तकदेवलोकस्यापेक्षयोक्ता । अथ पुनः शुक्ललेश्याया उत्कृष्टा स्थितिस्त्रयस्त्रिंशत्सागरोपमाण्यन्तर्मुहूर्ताभ्यधिकानि भवति । इयं स्थितिस्तु पञ्चानुत्तरविमानापेक्षया ज्ञेया ॥ ५५ ॥ अथ लेश्यानां गतिद्वारमाह किण्हा नीला काऊ, तिण्णिवि एया उअहम्मलेसाओ। एयाहिं तिहिं जीवो, दुग्गइं उववज्जई ॥ ५६ ॥ कृष्णा नीला कापोती, एतास्तिस्त्रोऽपि लेश्या अधमा ज्ञेयाः । एताभिस्तिसृभिर्जीवो दुर्गतिमुपपद्यते ॥५६॥ . तेउ पम्हा सक्का, तिण्णिवि एयाओ धम्मलेसाओ। एयाहि तिर्हि जीवो, सुग्गइं उववज्जई ॥ ५७ ॥ तेजसाद्यास्तेजःपद्मशुक्ला एतास्तिस्रोऽपि लेश्या धर्माधर्मनिबन्धिन्यो ज्ञेयाः । एताभिस्तिसृभिर्लेश्याभिर्जीवः सद्गतिमुपपद्यते ॥५७ ॥ लेसाहिं सव्वाहिं पढमे, समयंमि परिणयाहिं तु । नहु कस्सवि उववाओ, परे भवे अस्थि जीवस्स ॥५८॥ लेसाहिं सव्वाहिं चरमे, समयंमि परिणयाहिं त । न हु कस्सवि उववाओ, परे भवे अस्थि जीवस्स ॥५९॥ ॥युग्मम् ॥ सर्वाभिर्लेश्याभिः कृष्णनीलकापोततेज:पद्मशुक्लाभिः षड्भिः प्रथमे समये तत्प्रतिपत्तिकालापेक्षया परिणताभिरात्मरूपत्वं प्राप्ताभिः सतीभिः परभवे कस्यापि जीवस्योपपातो नास्ति, न भवतीत्यर्थः । उपपत्तिर्न भवतीत्यनेन प्रथमसमये लेश्यासूत्पन्नासु परभवे जीवेनोत्पद्यते । सर्वाभिर्लेश्याभिश्चरमसमयेऽन्त्यसमये परिणताभिरात्मरूपतामापन्नाभिः सतीभिः परभवे कस्यापि जीवस्योपपातो नास्तीति ॥५८ ॥५९ ॥ तर्हि कदोत्पद्यते ? इत्याह अंतोमुहुत्तंमि गए, अंतमुहुत्तंमि सेसए चेव । लेसाहिं परिणयाहिं, जीवा गच्छंति परलोयं ॥६०॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy