SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २०४] [उत्तराध्ययनसूत्रे-भाग-२ जह सुरहिकुसुमगंधो, गंधवासाण पिस्समाणाणं । एत्तोवि अणंतगुणो, पसत्थलेसाण तिण्हंपि ॥१७॥ तिसृणामपि प्रशस्तलेश्यानां तैजसीपद्मशुक्लानामेतादृशो गन्धो भवति । एतादृशः कीदृशः ? यादृशः सुरभिकुसुमानां जातिचम्पकादीनां पुष्पाणां गन्धवासानां यादृशो गन्धो भवति, गन्धाश्च वासाश्च गन्धवासाः, गन्धाः 'कुष्टपुटपाकनिष्पन्नाः, वासा इतरे'कर्पूरकर्चरिकाद्याः, तेषां चूर्णीक्रियमाणानां गन्धो भवति, अत एभ्योऽपि गन्धेभ्योऽनन्तगुणो गन्धः प्रशस्तलेश्यानां ज्ञेय इत्यर्थः ॥ १७ ॥ अथ लेश्यानां स्पर्शमाह जह करगयस्स फासो, गोजिब्भाए च सागपत्ताणं । एत्तो वि अणंतगुणो, लेसाणं अप्पसत्थाणं ॥१८॥ अप्रशस्तानां लेश्यानां कृष्णनीलकापोतानां स्पर्श एतादृशो भवति । एतादृशः कीदृशः ? यादृशः क्रकचस्य स्पर्शः, पुनर्यादृशो गोजिह्वायाः स्पर्शः तथा सागवृक्षस्य पत्राणां स्पर्शो भवति, एभ्यः स्पर्शेभ्योऽप्यशुभानां लेश्यानामनन्तगुणः स्पर्शो ज्ञेयः ॥ १८ ॥ जह बूरस्स व फासो, नवणीयस्स य सिरीसकुसुमाण । एत्तोवि अणंतगुणो, पसत्थलेसाण तिण्हंपि ॥ १९ ॥ प्रशस्तलेश्यानां तिसृणामपि तेजोलेश्यापद्मलेश्याशुक्ललेश्यानां स्पर्श ईदृशो भवति । ईदृशः कीदृशः ? यादृशो बूरस्य-वनस्पतिविशेषस्य स्पर्शो भवति, च पुनर्नवनीतस्य - म्रक्षणस्य स्पर्शो यादृशो भवति, पुनः शिरीषवृक्षस्य कुसुमानां यादृशः स्पर्शो भवति, एतेभ्यः स्पर्शेभ्योऽप्यनन्तगुणः स्पर्शो भव्यानां लेश्यानां ज्ञेयः ॥ १९ ॥ अथ सर्वलेश्यानां परिणामा उच्यन्ते तिविहोवि नवविहो वा, सत्तावीसइविहेक्सीओ वा । दुसओ तेयालो वा, लेसाणं होइ परिणामो ॥२०॥ लेश्यानां परिणामस्तदूपगमनात्मकस्त्रिविधोऽपि भवति, पुनर्नवविधो भवति, तथा सप्तविंशतिविधः, तथैकाशीतिविधः, तथा पुनस्त्रिचत्वारिंशदधिकद्विशतविधो वा लेश्यानां परिणामो भवति । तत्र त्रिविधो यथा-जघन्यमध्यमोत्कृष्टभेदेन भवति प्रत्येकम् । यदैतेषामपि जघन्यादीनां स्वस्थानतारतम्यचिन्तायां त्रयेणगुणना क्रियते तदा नवविधः । एवं पुनस्त्रि१ कुष्ट - कठ नामर्नु सुगंधी मूळीयुं । ते शुष्क होवाथी तेनी सुगंध लेवा माटे माटीना कोडीयामां मूकीने पुट बनावी अग्निमां पकावाय छे. ते कुष्ट पुटपाक कहेवाय । २ कपूरकाचली नामनुं सुगंधी द्रव्य ।
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy