SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १९६] [उत्तराध्ययनसूत्रे-भाग-२ नामकर्म द्विविधं व्याख्यातं, शुभं १, च पुनरशुभं २, शुभनामकर्म १, अशुभनामकर्म २.एवं द्विविधम । तत्रशभस्य शभनामकर्मणो बहभेदाः सन्ति, एवमेवाऽशभस्याऽशभनामकर्मणोऽपि बहुभेदा भवन्ति । तत्र शुभस्योत्तरोत्तरभेदतोऽनन्तभेदत्वेऽपि मध्यमापेक्षया सप्तत्रिंशद्भेदा भवन्ति, ते चामी-मनुष्यगतिः १, देवगतिः २, पञ्चेन्द्रियगतिः३, औदारिक ४, वैक्रिय ५, आहारक ६, तैजस ७, कार्मण शरीराणि ८, समचतुरस्रसंस्थानं ९, वज्रर्षभनाराचसंहननं १०, औदारिकाङ्गोपाङ्गं ११, वैक्रियाङ्गोपाङ्गं १२, आहारकाङ्गोपाङ्गं १३, प्रशस्तवर्णः १४, प्रशस्तगन्धः १५, प्रशस्तरसः १६, प्रशस्तस्पर्शः १७, मनुष्यानुपूर्वी १८, देवानुपूर्वी १९, अगुरुलघु २०, पराघातं २१, उच्छ्वासं २२, आतपं २३, उद्योतं २४, प्रशस्तविहायोगतिः २५, वसं २६, बादरं २७, पर्याप्तं २८, प्रत्येकं २९, स्थिरं ३०, शुभं ३१, सुभगं ३२, सुस्वरं ३३, आदेयं ३४, यश:कीर्तिः ३५, निर्माणं ३६, तीर्थङ्करनामकर्म ३७, एताः सवा अपि शुभानुभावाच्छुभनामकर्मणः प्रकृतयो ज्ञेयाः। तथाऽशुभनामकर्मणोऽपि मध्यमभेदविवक्षया चतुस्त्रिंशद्भेदा भवन्ति । तद्यथानरकगतिः१, तियेगगतिः २, एकेन्द्रिय ३, द्विन्द्रिय ४,त्रीन्द्रिय ५,चतुरिन्द्रीयजातिः६ ऋषभनाराच ७. नाराच८.अर्धनाराच ९.कीलिका १०,सेवार्तकसंहननानि ११.न्यग्रोधपरिमण्डलसंस्थान १२, सादि १३, वामन १४, कुब्ज १५, हुण्डक संस्थानानि १६, अप्रशस्तवर्ण १७, अप्रशस्तगन्ध १८, अप्रशस्तरस १९, अप्रशस्तस्पर्शाः २०, नरकानुपूर्वी २१, तिर्यगानुपूर्वी २२, उपघातं २३, अप्रशस्तविहायोगतिः २४, स्थावरं २५, सूक्ष्म २६, साधारणं २७, अपर्याप्तं २८, अस्थिरं २९, अशुभं ३०, दुर्भगं ३१, दुःस्वरं ३२, अनादेयं ३३, अयशोऽकीर्तिश्च ३४ । एताश्चाऽशुभनारकत्वादिनिबन्धनत्वेनाऽशुभाः । अत्र बन्धनसङ्घाते शरीरेभ्यो, वर्णाद्यवान्तरभेदा वर्णादिभ्यः पृथग विवक्ष्यन्ते । एताः प्रकृतयस्तु मध्यमविवक्षया प्रोक्ताः । उत्कृष्टविवक्षया तु १०३ प्रोक्ताः सन्ति ॥ १३ ॥ अथ गोत्रकर्मप्रकृतीळनक्ति गोयं कम्मं दुविहं, उच्चं नीयं च आहियं । उच्चं अट्ठविहं होइ, एवं नीयं पि आहियं ॥१४॥ गोत्रं कर्म द्विविधम्, उच्चं च पुनींचम्, तत्रोच्चमुच्चैर्गोत्रमीक्ष्वाकुजात्यादि, उच्चैर्व्यपदेशहेतुजातिकुलस्वरूपबलश्रुततपोलाभाद्यष्टविधबन्धहेतुत्वादष्टविधमुच्चैर्गोत्रं भवति । एवमित्यष्टविधमेव जातिकुलादिमदाष्टनिबन्धहेतुत्वान्नीचमपि-नीचैर्गोत्रमपि नीचैर्व्यपदेशहेत्वाख्यातम् ॥१४॥ अथान्तरायप्रकृतीराह दाणे लाभे य भोगे य, उवभोगे वीरिये तहा। पंचविहमंतरायं, समासेण वियाहियं ॥ १५ ॥ अन्तरायं समासेन-सक्षेपेण पञ्चविधं व्याख्यातं, तत्पञ्चवैध्यमाह-दाने लाभे भोगे उपभोगे तथा वीर्ये, एतेषु पञ्चस्वन्तरायत्वात्पञ्चविधमन्तरायम् । तत्र दीयते इति दानं तस्मिन्
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy