________________
१९४]
[उत्तराध्ययनसूत्रे-भाग-२ रुपवद्व्यं सामान्यप्रकारेण मर्यादासहितं दृश्यते इत्यवधिदर्शनं, तदावृणोतीत्यवधिदर्शनावरणम्, एवं त्रयो भेदाः । चतुर्थं पुनः केवले केवलदर्शनेऽप्यावरणं ज्ञेयम् । केवलं सर्वद्रव्यपर्यायाणां सामान्येन स्वरूपं दृश्यते इति केवलदर्शनं, तत्र यदावरणं तत्केवलदर्शनावरणम् । एवं पञ्चानां निद्राणां, चतुर्णामावरणानां चैकत्रीकरणानवविधं दर्शनावरणं ज्ञातव्यमित्यर्थः ॥ ६ ॥
वेयणियंपि य दुविहं, सायमसायं च आहियं ।
सायस्स य बहुभेया, एमेवासायस्स वि ॥ ७ ॥ वेदनीयकर्मापि द्विविधं, वेदितुं योग्यं वेदनीयं कर्म विभेदमाख्यातं-कथितम् । एकं सातं च पुनरसातम्, तत्र स्वाद्यते शारीरं मानसं च सुखमनेनेति सातं सातावेदनीयं, ततोऽन्यदसातावेदनीयमित्यर्थः । तु-पुनः सातस्यापि-सातावेदनीयस्यापि बहवोऽनुकम्पादयो भेदा भवन्ति। एवमसातस्याप्यसातावेदनीयस्यापि बहव आतिशोकसन्तापादयो भवन्तीति शेषः ॥७॥
मोहणिज्जं पि दविहं, दंसणे चरणे तहा । दसणे तिविहं वुत्तं, चरणे य दुविहं भवे ॥८॥ सम्मत्तं चेव मिच्छत्तं, सम्मामिच्छत्तमेव य । एयाओ तिन्नि पयडीओ,मोहणिज्जस्स दंसणे॥९॥ चारित्तमोहणं कम्म, दुविहं तु वियाहियं । कसायमोहणिज्जं च, नोकसायं तहेव य॥१०॥ सोलसविहभेएण, कम्मं तु कसायजं । सत्तविहं नवविहं वा, कम्मं नोकसायजं ॥११॥ गाथा चतुष्कम् ।
मोहयति जीवं घूर्णयति मद्यवत्परवशं करोतीति मोहः, तदर्ह मोहनीयं कर्मापि द्विविधं भवति, दर्शने तथा चरणे, दर्शने दर्शनविषये मोहनीयं, तथा चरणे चरणविषये मोहनीयम् । तत्र दर्शनं तत्त्वरुचिरूपं, चरणं विरतिरूपम्, तत्रापि दर्शने यन्मोहनीयं तत् त्रिविधं तीर्थकरैरुक्तम् । चरणे चारित्रे यन्मोहनीयं तद् द्विविधं भवेत् ॥ ८ ॥ दृश्यन्ते ज्ञायन्ते जीवादयः पदार्था अनेनेति दर्शनं, तत्र मोहयति मूढीकरोतीति दर्शनमोहनीयं त्रिविधम्, सम्यक्त्वं १, मिथ्यात्वं २, सम्यक्मिथ्यात्वमिश्रम् ३, इत्यर्थः, एव पादपूरणे, सम्यक्त्वमोहनीयं, मिथ्यात्वमोहनीयं.मिश्रमोहनीयं च। तत्र सम्यक्त्वं हिमिथ्यात्वस्यैव पदला:.अशदपदला अत्यन्तविशुद्धा भवन्ति, तदा सम्यक्त्वं कथ्यते, तत्सम्यक्त्वमेव दर्शनं कथ्यते, दर्शनसम्यक्त्वयोर्नामान्तरमत्र गृह्यते । यदा हि सम्यक्त्वं मिथ्यात्वप्रकृतित्वं भजति, तदा सम्य
खपुद्गला