SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ॥३३ कर्मप्रकृत्याख्यमध्ययनम् ॥ पूर्वस्मिन्नध्ययने प्रमादपरिहार उक्तः, तथा प्रमादस्थानान्युक्तानि, तैः प्रमादैः कृत्वा .. कर्मप्रकृतीनां बन्धः स्यात्, तदर्थमिहाध्ययने कर्मप्रकृतय उच्यन्ते अट्ठकम्माई वुच्छामि, आणुपुचि जहक्कम्मं । ---- जर्हि बद्धो अयं जीवो, संसारे परिवत्तई ॥ १ ॥ हे जम्बू ! अहं यथाक्रममानुपूर्व्याऽनुक्रमेण तान्यष्ट कर्माणि वक्ष्यामि । क्रियन्ते मिथ्यात्वाऽविरति-कषाय-योगैर्हेतुभिर्जीवेनेति कर्माण्यष्टसङ्ख्यानि । यद्यप्यानुपूर्वी त्रिधा वर्तते, तथापि यथाक्रम पूर्वानुपूर्व्या, प्राकृतत्वात्तृतीयास्थाने प्रथमा, तानि कानि कर्माणि? यैरष्टभिः कर्मभिर्बद्धो नियन्त्रितोऽयं जीवः संसारे चतुर्गतिभ्रमणे परिवर्तते, विविधान् पर्यायान् प्राजोति ॥१॥ 'नाणावरणं चेव, दंसणावरणं तहा । वेयणिज्जं तहा मोहं, आउकम्मं तहेव य॥२॥ नामकम्मं च गोयं च, अंतरायं तहेव य । एवमेयाई कम्माई, अट्टेव उ समासओ ॥३॥ युग्मम् ॥ एवममुना प्रकारेणैतान्यष्टौ कर्माणि समासतः-सक्षेपतो ज्ञेयानीति शेषः । एतानि कानि ? तत्र प्रथमं ज्ञानावरणं, ज्ञानं मतिश्रुतावधिमनःपर्यवकेवललक्षणम्, आवृणोत्याच्छादयतीति ज्ञानावरणं, यथा नेत्रं पट आवृणोति, तद् ज्ञानावरणं कर्म प्रथमम् १ । चैव पादपूरणे ।तथा द्वितीयं दर्शनावरणं, दर्शनं सम्यक्त्वमावृणोतीति दर्शनावरणं, प्रतीहारवत्सम्यक्त्वभूपं न दर्शयति २ । तथा वेदनीयं, वेद्यते साताऽसाताऽनेनेति वेदनीयम्, मधुलिप्तखङ्गधारातुल्यं तृतीयं कर्म ३ । तथा पुनर्मोहं, मुह्यते मूछितो भवति जीवोऽनेनेति मोहः, मद्यवच्चतुर्थं मोहनीयम्, मोहाय योग्यं मोहनीयकर्म ज्ञेयम् ४ । तथैव चायाति स्वकीयावसरे इत्यायुर्गतिः, निःसरितुमिच्छन्नपि जीवो निर्गन्तुं न शक्नोति, यस्मिन् सति निगडबद्ध इव तिष्ठतीत्यायुषः स्वभावः, इति पञ्चममायुः कर्म ५ । तथा नामयति चतसृषु गतिषु नवीनान्नवीनान् पर्यायान् प्रापयति जीवं प्रतीति नाम, चित्रकारवन्नामकर्म षष्ठं ज्ञेयम् ६। गोत्र्यन्ते आहूयन्ते लघुना दीर्घेण वा शब्देन जीवोऽनेनेति गोत्रं, कुम्भकारवद्घटकलशशरावकुण्डकादिभाण्डकृद्भवति, इदं गोत्रं कर्म सप्तमम् ७।तथान्तर्मध्ये दातृग्राहकयोविचाले आयातीत्यन्तरायः यथा राजा कस्मैचिद्दातुमुपदिशति, तत्र भाण्डागारिकोऽन्तराले विघ्नकृद्भवति । तादृगन्तरायकर्माष्टमं भवति ८ । तत्र चाष्टानां कर्मणामादौ ज्ञानावरणं दर्शनावरणं च प्रतिपादितं, तत्त्वात्मनः स्वभावस्तु ज्ञानदर्शनरूप एवास्ति, अतस्तदावरण१ नाणस्सावरणिज्जं-अन्यसंस्करणे॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy