SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ ३२, प्रमादस्थानाख्यमध्ययनम् ] [१८७ भावाणुवाएण परिग्गहेण, उप्पायणे रक्खणसंनिओगे। वए विओगे य कहं सुहं से, संभोगकाले य अतित्तिलाभो ॥९३ ॥ भावानुपातेन विषयादिचिन्तनेन, तथा परिग्रहेण विषयादिमीलनेन, तथोत्पादने, एते विषयादिपदार्थाः कथं मे मिलिष्यन्ति ? इति चिन्तने, तथा रक्षणे आरोगबुद्धिप्रमुखभावरक्षणे,तथा संनियोगे परस्य कुबुद्धिसुबुद्धयादिदाने,तथा व्यये-निदास्मृतिप्रमुखाणां हीनत्वे, वियोगे परस्योत्तरदानादौ समर्थाया बुद्धेः स्फुरणस्याऽभावे भावानुरक्तस्य कुतः कस्मात्सुखं भवेत् ? अपि तु कुतोऽपि सुखं न स्यादेव।पुनः सम्भोगकाले चाऽतृप्तिलाभो दुःखं भावनां चिन्तनकालेऽपि तृप्तेर्लाभो न स्यात्, सत्कुम्भभञ्जकपुरुषवत् सुखं न लभते ॥९३ ॥ भावे अतित्ते य परिग्गडंमि, सत्तोवसत्तो न उवेइ तुढेिं। अतुट्ठिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥९४ ॥ भावे शुभाशुभाध्यवसायेऽतृप्तोऽसन्तुष्टो जनः परिग्रहे सक्तो भवति, सामान्येन सक्तो भवति । ततश्च सामान्येन सक्तः सन्नुपसक्तोऽत्यन्तासक्तो भवति । एतादृशश्च संस्तुष्टिं नोपैति । अतुष्टिदोषेण दुःखी सन् परस्यान्यस्य द्रव्यादौ लोभाविलो लोभकलुषोऽदत्तमादत्ते ॥९४ ॥ तण्हाभिभूयस्स अदत्तहारिणो, भावे अतित्तस्स परिग्गहे य । मायामुसं वड्ढइ लोभदोसा, तत्थावि दुक्खा न विमुच्चइ से ॥९५ ॥ तृष्णाभिभूतस्याऽदत्तहारिण: पुनर्भावे भावविषये, परिग्रहे विषयादिमीलनेऽतृप्तस्य पुरुषस्य लोभदोषान्मायामृषा वर्धते, तत्रापि मृषाभाषणेऽपि स मृषाभाषी दुःखान्न विमुच्यते ॥१५॥ मोसस्स पच्छा य पुरत्थओ य, पओगकाले य दुही दुरंते । एवं अदत्ताणि समाययंतो, भावे अतित्तो दुहिओ अणिस्सो ॥९६ ॥ मृषावाक्यस्य पश्चात्पुरतश्च प्रयोगकाले च पुरुषो दुरन्तो दुःखी भवति । एवममुना प्रकारेण भावेऽतृप्तः सङ्कल्पेऽसन्तुष्टोऽदत्तानि च समाचरन् दुःखितो भवति । कथंभूतः सः ? अनिश्री निश्रारहितः, धर्मशुक्लाभ्यां रहित आर्तन्द्राभ्यां सहित इत्यर्थः ॥ ९६ ॥ भावाणुरत्तस्स नरस्स एवं, कत्तो सुहं हुज्ज कयावि किंचि । तत्थोवभोगेवि किलेसदुक्खं, निव्वत्तई जस्स कएण दुक्खं ॥९७॥ एवममुना प्रकारेण भावानुरक्तस्य, भावे-स्वाभिप्रायेऽनुरक्तो भावानुरक्तस्तस्य कदापि कुतः सुखं भवेत् ? कुतोऽपि कदापि किमपि सुखं न स्यादित्यर्थः । तत्र च भावोपभोगेऽपि सङकल्पविकल्पानरागेऽपि चिरकालचिन्तनेऽपि क्लेशदःखमतप्तिलाभजनितं क्लेशरूपं दुःखं निवर्तयत्युत्पादयति । पुनर्यस्य कृते, यस्य भावोपभोगेऽपि विषय-चिन्तनाद्यर्थं नरस्य दुखं स्यात् ॥ ९७ ॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy