SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १७२] [ उत्तराध्ययनसूत्रे-भाग-२ यश्चापि जीवो रूपेष्वित्यध्याहारः, यस्मिन् क्षणे तीव्र दोषं समुपैति, स जीवस्तस्मिन्नेव क्षणे स्वकीयेन दुर्दान्तदोषेण, दुर्दान्तं चक्षुस्तदेव दोषो दुर्दान्तदोषस्तेन दुर्दान्तदोषेण दुःखं चित्तसन्तापं समुपैति । परं से' इति तस्य पुरुषस्य रूपं किमपि नापराध्यति, न विरूपं करोति । रूपस्य न कोऽपि दोष इत्यर्थः। तस्य जीवस्यैव दुर्दान्तेन्द्रियस्यैव दोष इत्यर्थः ॥२५॥ एगंतरत्तो रुइरंसि रूवे, अतालिसे से कुणइ पओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागे ॥२६॥ यो मनुष्योरुचिरे-मनोज्ञे रूपे एकान्तरक्तो भवत्यत्यन्तं रागी भवति, स च पुरुषोऽतादृशेऽसुन्दरे रूपे प्रद्वेषं करोति । ततो बालोऽज्ञानी रागी पुमान् दुःखस्य सम्पीडं-सङ्घातमुपैति । विरागी मुनिस्तेन रागद्वेषजनितदुःखेन न लिप्यते, न श्लिष्यते ॥ २६ ॥ इदानीं रागस्यैव सकलाश्रवहेतुत्वमाहरूवाणुगासाणुगए य जीवे, चराचरे हिंसइणेगरूवे । चित्तेहिं ते परियावेइ बाले, पीलेइ अत्तट्ठगुरू किलिट्टे ॥ २७ ॥ क्लिष्टो रागबाधितो रागवशवर्ती बालोऽज्ञानी जीवश्चित्रैरनेकप्रकारैः शस्त्रायुपायैः कृत्वा चराचरांस्त्रसस्थावराननेकरूपवान् जीवान् पीडयति, एकदेशदुःखोत्पादनेन पीडामुत्पादयति । पुनः परितापयति, परि-समन्ताद् दुःखयति । पुनर्हिनस्ति, प्राणेभ्यः पृथक्करोति । परंस रागी जीवः कीदृशः सन् ? रूपानुगाशानुगतः सन्, रूपं प्रस्तावान्मनोज्ञमनुगच्छतीच्छतीति रूपानुगा, रूपानुगा चासावाशा च रूपानुगाशा रूपविषयोऽभिलाषः, तमनुगतोऽनुप्राप्तो रूपानुगाशानुगतः, तादृशः सन् सुन्दररूपविलोकनमनोरथसहितः सन्नित्यर्थः । पुनः कीदृशो बालः ? अत्तट्ठगुरु' इत्यात्मार्थगुरुः, आत्मनः स्वस्यार्थः-प्रयोजनं गुरु यस्य स आत्मार्थगुरुः स्वप्रयोजननिरतः, स्वार्थीपुमान् किं किं न कुर्यादिति भावः ॥२७॥ तस्य रूपलोभाभिभूतस्य प्राणिनः कुतः सुखं ? तदेव दर्शयतिरूपाणुवाएण परिग्गहेण, उप्पायणे रक्खणसंनिओगे। वए विओगे य कहिं सुहं से, संभोगकाले य अत्तित्तिलाभे ॥२८॥ रूपानुरागे सति रूपानुरागेण वा रूपानुपाते सति परिग्रहेण-मूर्छारूपेण हेतुना, 'उप्पायणे' इत्युत्पादने उपार्जने, तथा रक्षणसंनियोगे, रक्षणं चाऽपायनिवारणं, संनियोगश्च स्वपरप्रयोजनेषु सम्यग्व्यापारः, ततो द्वन्द्वे रक्षणसंनियोगं, तस्मिन् । तथा व्यये विनाशे, तथा विरहे, च पुनः सम्भोगकालेऽतृप्तिलाभे सति, तृप्तेः-सन्तुष्टेर्लाभस्तृप्तिलाभः, न तृप्तिलाभोऽतृप्तिलाभस्तस्मिन्नतृप्तिलाभे सति, से' इति तस्य लोभयुक्तस्य जीवस्य कदापि न
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy