________________
३२, प्रमादस्थानाख्यमध्ययनम् ]
[१६५ हे शिष्य ! तस्य मोक्षोपायभूतस्य ज्ञानस्यैव समीपतरवर्ती मम हृदयस्थस्तवाने वक्ष्यमाणो मार्गः प्राप्तिहेतुरुक्त इति शेषः । एष कः ? तं मार्ग दर्शयति-प्रथमं गुरुवृद्धसेवा ज्ञानप्राप्तिहेतुः, गुरुवश्च वृद्धाश्च गुरुवृद्धास्तेषां सेवा गुरुवृद्धसेवा । तत्र गुरवो धर्माचार्याः, वृद्धाः श्रुतपर्यायाभ्यां ये महान्तः, तेषां सेवा ज्ञानदर्शनहेतुभूतेत्यर्थः । पुनर्दूराद् बालजनस्यमूर्खस्य विशेषेण वर्जना-परिहरणा ज्ञानस्य हेतुभूता । पुनः पञ्चप्रकारस्य स्वाध्यायस्यैकान्तेनैकाग्रचित्तेन निषेवणाऽभ्यसनं स्वाध्यायैकान्तनिषेवणा ज्ञानप्राप्तिहेतुभूता।पुनः सुत्रार्थयोः सम्यक्प्रकारेण चिन्तना सूत्रार्थसञ्चिन्तना, सापि ज्ञानप्राप्तिहेतुभूता । पुन तिधैर्य, चित्तस्यैकाग्यमुद्वेगाभावत्वम्, एतदपि ज्ञानप्राप्तिहेतुभूतम् । एतैरन्तरेण ज्ञानप्राप्तिर्न स्यादित्यर्थः॥३॥
एतानिच्छता पुरुषेण प्राक् किं कार्यं तदाह
आहारमिच्छे मियमेसणीज्जं, सहायमिच्छे निउणत्थबुद्धिं । निकेयमिच्छेज्जविवेगजोगं, समाहिकामे समणे तवस्सी ॥४॥
समाधिकामः श्रमणस्तपस्व्येतदिच्छेत् । समाधि ज्ञानदर्शनचारित्रलाभं कामयत्यभिलषतीति समाधिकामो ज्ञानदर्शनचारित्राभिलाषुकः । श्रमणः क्रियानुष्ठानादौ श्रमकर्ता । तपस्वी षष्ठाष्टमादितपःकर्ता एतदिच्छेत् । एतत् किं ? तदाह-पूर्वमेषणीयं दोषरहितमाहारमिच्छेदभिलषेत्, यादृश आहारस्तादृगुद्गार इति वचनात् । तमपि मितं-प्रमाणोपेतं, न त्वपरिमितं गृह्णीयात् । पुनः साधुनिपुणार्थबुद्धि सहायमिच्छेत्, निपुणार्थेषु जीवादितत्त्वेषु बुद्धिर्यस्य स निपुणार्थबुद्धिस्तम्, जीवाजीवादितत्त्वज्ञं सहायं-शिष्यमिच्छेत् । यतो हि सम्यग्निर्दोषाद्याहारधर्माचारवेदिकात्सहायभूताच्छिष्याद्गुरुरपि शैलकमुनिवद्धर्मे स्थैर्यं लभते । पुनर्यः साधुविवेकयोग्यं निकेतमिच्छेत्, विवेकः स्त्रीपशुपण्डकादीनामभावेनैकान्तस्तेन योग्यं विवेकयोग्यं निकेतं-साधुनिवासस्थानमभिलेषत्, ॥४॥
अथ कालादिदोषवशाच्चेत्पूर्वोक्तगुणः सहायः शिष्यो न लभेत तदा किं कर्तव्यमित्याहन वा लभिज्जा निउणं सहायं, गुणाहियं वा गुणओ समं वा । इक्कोवि पावाइविवज्जयंतो, विहरेज्ज कामेसु असज्जमाणो ॥ ५ ॥ __वाशब्दो यद्यर्थे । वा यदि निपुणं-बुद्धिमन्तं सहायं-शिष्यं न लभेन्न प्राप्नुयात्, तं सहायं गुणाधिकं - गुणैः स्वस्मिन् स्थितैर्विनयज्ञानादिभिरधिकमुत्कृष्टं, अथवा तं शिष्यं गुणत इति स्वस्मिन् स्थितैर्ज्ञानादिभिः समं सदृशं न प्राप्नुयात्, तदा स साधुरेकोऽप्येकाक्यपि शिष्यै रहितो विचरेविहारं कुर्यात्, न तु हीनानां कुशिष्याणां मुण्डमेलापं कुर्यात् । सम्यक्शिष्याऽभावे साधुनैकाकिनापि विहर्तव्यं, न कश्चिद्दोषः । साधुः किं कुर्वन् विहरेत् ? पापानि पापकारकाणि क्रियानुष्ठानानि विवर्जयेत् । पुनः साधुः किं कुर्वन् विचरेत् ? कामेषु 'असज्जमाणो' इतीन्द्रियसुखेष्वनुद्यतो भवन्, प्रतिबन्धमकुर्वाण इत्यर्थः ॥५॥
૧૨.