SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ३०, तपोमार्गाख्यमध्ययनम्] [१५१ मनसीप्सित इष्टश्चित्रोऽनेकप्रकारोऽर्थः स्वर्गापवर्गादिस्तेजोलेश्यादि यस्मात्तन्मनसीप्सितचित्रार्थमित्वरिकं प्रक्रमादनशनाख्यं तपो ज्ञातव्यम् ॥ ११ ॥ अथ द्वितीयं मरणकालमनशनमाह जासाअणसणा मरणे, दुविहा सा वियाहिया। सवियारा अवियारा, कायचेटु पई भवे ॥ १२ ॥ प्राकृतत्वादत्र स्त्रीत्वम् यदनशनं मरणे-मरणसमये भवति, तत्तीर्थकरैर्द्विविधं व्याख्यातम्, सविचारं - सह विचारेण मनोवाक्कायभेदचेष्टारूपेण वर्तते यत्तत्सविचारम्, अङ्गादिचेष्टया सहितं, स्थित्युपविशनत्वग्वर्तनविश्रामणादिकया युक्तमित्यर्थः । द्वितीयमविचारंचेष्टारहितं पादपोपगममित्यर्थः । तत्सविचारं हि कायचेष्टां प्रतीत्याश्रित्य भवतीत्यर्थः । वैयावृत्त्यकृत्साधुनोत्थापन, प्रतिस्थापनमुभयपार्वाभ्यां स्थापनमित्यादि वैयावृत्यकारापणम्, अथवा स्वयमेव शरीरस्योद्वर्तनपरिवर्तनादिचेष्टासहितम्, अन्येन न कारापणम्, ईदृशं यद्भवति तत्सविचारंज्ञेयमित्यर्थः । त्रिविधचतुर्विधाहारत्यागेन प्रत्याख्यानमुद्वर्तनादि करोति कारयति वा तद्भक्तपरिज्ञाख्यं प्रथमम् १, तथा कृतनिश्चितचतुर्विधाहारत्याग इङ्गितदेशे उद्वर्तनादीङ्गितं-चेष्टितमात्मनैव करोति, अन्येन कारयति, एतद् द्वितीयमिङ्गितमरणम् २, एतद्-द्वयमपि सविचारमनशनं ज्ञेयम् ॥१२॥ एतदेव सूत्रकारो वदति अहवा सप्पडिकम्मा, अप्पडिकम्मा य आहिया । नीहारिमनीहारी, आहारच्छेओ दोसुवि ॥ १३ ॥ अथवा तत्पुनर्मरणं सप्रतिकर्म अप्रतिकर्म आहितं-कथितमित्यर्थः । सह परिकर्मणा वर्तते इति सप्रतिकर्म वैयावृत्त्यसहितं भक्तपरिज्ञाख्यं इङ्गिनीमरणं च,सप्रतिकर्मणी एते द्वे अपि मरणे, परन्तु मूल्यत्वेनैक एव भेदाः । च पुनरप्रतिकर्म मरणं वैयावृत्त्यरहितं पादपोपगममित्यर्थः । तथा पुनर्निर्हार्यनशनं, ग्रामान्नगराबहिनिर्हार्यते-निःसार्यते इति निर्हारि, पुनरनीहारि, एतत्यादपोपगममपि द्विविधं भवति, द्वयोरपि निर्हाराऽनीहारयोर्मरणयोराहारच्छेदस्तु भवत्येव ॥१३॥ अथोनोदरिकामाह ऊमोयरियं पणहा, समासेण वियाहियं । दव्वओ खित्तकालेण, भावेणं पज्जवेहि य ॥१४॥ अवमूनमुदरं यस्मिंस्तदवमोदरं, तत्र भवमवमोदरिकं तत्तपः समासेन-सक्षेपेण पञ्चधा व्याख्यातं, दव्यतो-द्रव्येण, क्षेत्रेण, कालेन, भावेन, च पुनः पर्यायैः ॥ १४ ॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy