SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ . महानिर्ग्रन्थीयमध्ययनम् ] २०, इदानीं स साधुर्वदति - अणाहो मि महाराय, नाहो मज्ज न विज्जई । अणुकंपयं सुहियं वावि, कंचि णाभिसमेमहं ॥ ९ ॥ हे महाराज ! अहमनाथोऽस्मि, न विद्यते नाथो-योगक्षेमविधाता यस्य सोऽनाथः, निःस्वामिकोऽस्मि । मम नाथो न विद्यते इत्यर्थः । पुनरहं कञ्चित्कमप्यनुकम्पकं कृपाचिन्तकं सुहितं सुहृदं मित्रं वा नाभिसमेमि-न सम्प्राप्नोमि, केनापि दयालुना मित्रेण वा सङ्गतोऽहं न, अनेनार्थेन तारुण्येऽपि प्रव्रजित इति भावः ॥ ९ ॥ तओ पहसिओ राया, सेणिओ मगहाहिवो । एवं ते इड्डिमंतस्स कहं नाहो न विज्जई ॥ १० ॥ ततस्तदनन्तरं श्रेणिको मगधाधिपो राजा प्रहसितः । हे महाभाग्यवान् ! 'ते' तव ऋद्धिमत - ऋद्धियुक्तस्य कथं नाथो न विद्यते ॥ १० ॥ होमि नाहो भयंताणं, भोगे भुंजाहि संजया । मित्तनाहिं परिवुड, माणुस्सं 'खलु दुल्लहं ॥ ११ ॥ [ ३ पूज्याः ! अहं 'भयंताणं' इति भदन्तानां पूज्यानां युष्माकं नाथो भवामि । यदा भवतां कोऽपि स्वामी नास्ति, तदाहं भवतां स्वामी भवामि । यदाऽनाथत्वाद्युष्माभिर्दीक्षा गृहीता, तदाहं नाथोऽस्मीति भावः । हे संयत ! हे साधो ! भोगान् भुङ्क्ष्व, कीदृशः सन् ? मित्रज्ञातिभिः परिवृतः सन् । हे साधो ! खलु निश्चयेन मानुष्यं दुर्लभं वर्तते । तस्मान्मनुष्यत्वं दुर्लभं प्राप्य भोगान् भुक्त्वा सफलीकुरु ॥ ११ ॥ अथ मुनिर्वदति - अप्पणा व अणाहो सि, सेणिया मगहाहिवा । अप्पणा अणाहो संतो, कहं नाहो भविस्ससि ॥ १२ ॥ हे राजन् श्रेणिक ! मगधाधिप ! त्वमात्मनाप्यनाथोऽसि, आत्मनाऽनाथस्य सतस्तवाप्यनाथत्वम्, तदा त्वमपरस्य कथं नाथो भविष्यसि ? ॥ १२ ॥ एवं वृत्तो नरिंदो सो, सुसंभंतो सुविहिओ । वयणं अस्सुयं पुव्वं, साहुणा विम्हयं निओ ॥ १३॥ " स नरेन्द्रः साधुनैवमुक्तः सन् विस्मयं नीतः, आश्चर्यं प्रापितः कीदृशो नरेन्द्रः ? सुसम्भ्रान्तोऽत्यन्तं व्याकुलतां प्राप्तः । पुनः कीदृश: ? सुविस्मितः, पूर्वमेव तद्दर्शनात्सञ्जा१ खु सुदुल्लाहं - अन्यसंस्करणे ॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy