SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १०६ ] [ उत्तराध्ययनसूत्रे - भाग - २ जीवा भव्यजीवा इमं मार्गमनुप्राप्ताः सन्तः सद्गतिं मोक्षगतिं गच्छन्ति । इमं मार्गं कं ? ज्ञानं च पुनर्दर्शनं च पुनश्चारित्रं, तथा तपो जिनाज्ञाशुद्धं द्वादशविधमित्यनेन ज्ञानदर्शनचारित्रतपांसि मोक्षमार्गः, ये पुरुषा अत्र सावधानास्ते मोक्षगामिनो ज्ञेया इति भावः ॥ ३ ॥ तत्थ पंचविहं नाणं, सुयं आभिणिबोहियं । ओहिनाणं च तइयं, मणनाणं च केवलं ॥ ४ ॥ तत्र ज्ञानादिषु मध्ये पञ्चविधं पञ्चप्रकारं ज्ञानं कथितम् । तान् प्रकारानाह-प्रथमं श्रुतं श्रुतज्ञानम्, अक्षरशब्दात्मकं द्वादशाङ्गीरूपम्, श्रूयते यत्तत् श्रुतं श्रुतज्ञानं भावश्रुतं गृह्यते । द्वितीयमाभिनिबोधिकं, अभिमुखो नियतः स्वस्य विषयस्य बोधो यस्मात्सोऽभिनिबोधः, अभिनिबोध एवाभिनिबोधिकम् । आभिनिबोधिकशब्देन मतिज्ञानमुच्यते । पञ्चेन्द्रियैः समनस्कैरुत्पन्नमित्यर्थः । तृतीयमवधिज्ञानम्, अवेत्यधोऽधो विस्तारभावेन धावतीत्यधर्मर्यादा, अवधिनोपलक्षितं ज्ञानमवधिज्ञानमुच्यते । कोऽर्थः ? यद् ज्ञानं मर्यादासहितं स्यात्, तत्तृतीयं ज्ञानम् । अथ चतुर्थं मनोज्ञानं, मनः शब्देन मनोद्रव्यपर्याया:, तेषु मनोद्रव्यपर्यायेषु मनोद्रव्यपर्यायाणां नामभेदकारणज्ञानं मनोज्ञानम् । यस्य कस्यचिन्मन: पुद्गला यादृक्स्वभावेन वर्तन्ते, तेषां तादृगुप्रकारेण ज्ञानं मनः पर्यायज्ञानमित्यर्थः । पञ्चमं केवलमेकं सकलमनन्तं च ज्ञानं केवलज्ञानं, केवलं च तद् ज्ञानं च केवलज्ञानं, यस्योदये सत्यन्येषां ज्ञानानामकिञ्चित्करत्वं भवतीति भावः । यद्यपि 'नन्दीसूत्रादौ पूर्वं मतिज्ञानमुक्तम्, अत्र चादौ श्रुतग्रहणं कृतं तच्छेषज्ञानानां स्वरूपं श्रुतज्ञानेनैव ज्ञेयत्वात्सर्वाण्यपि ज्ञानानि श्रुतज्ञानानीत्यर्थः ॥ ४॥ एयं पंचविहं नाणं, दव्वाण य गुणाण य । पज्जवाणं च सव्वेसिं, नाणं नाणीहि देसियं ॥ ५ ॥ एतत्पञ्चविधं ज्ञानं सर्वेषां द्रव्याणां गुणानां पर्यायाणां च यद् ज्ञानं तद् ज्ञानिभिः केवलिभिर्देशितं-कथितम् । ज्ञायते यत्तद् ज्ञानमिति भावव्युत्पत्तिः ॥ ५ ॥ अथ द्रव्यलक्षणमाह गुणाणमासयो दव्वं, एगदव्वसिया गुणा । लक्खणं पज्जवाणं तु, उभओ अस्सिया भवे ॥ ६ ॥ गुणानां रूपरसस्पर्शादीनामाश्रयः स्थानं द्रव्यम्, `यत्र गुणा उत्पद्यन्तेऽवतिष्ठन्ते विलीयन्ते च तद् द्रव्यं, इत्यनेन रूपादिवस्तु द्रव्यात् सर्वथाऽतिरिक्तमपि नास्ति । द्रव्ये एव रूपादिगुणा लभ्यन्त इत्यर्थः । गुणा ह्येकद्रव्याश्रिताः, एकस्मिन् दव्ये आधारभूते १ णाणं पंचविहं पण्णत्तं । तं जहा- आभिणिबोहियणाणं १, सुयनाणं २, ओहिनाणं ३, मणपज्जवनाणं ४, केवलणाणं ५ ॥ नन्दीसूत्रे - सूत्र -८ ॥ २ उत्पादव्ययधौव्यं युक्तं सत् । तत्त्वार्थसूत्रे ५ / ३० ॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy