SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ४] [उत्तराध्ययनसूत्रे मुनिसुव्रतस्वामिस्तूपप्रभावो नगरीरक्षको ज्ञातः नैमित्तिकोऽयं नगरीलोकैः पृष्टः-कदा नगरीरोधोऽपगमिष्यति ? स प्राह यदैनं स्तूपं यूयमपनयत तदा नगरीरोधापगमो भवतीति श्रुत्वा तैलॊकैस्तथा कृतम् । कूलवालकश्रमणेन बहिर्गत्वा सज्जितः कूणिकस्तेन तदैव स्तूपप्रभावरहिता सा नगरी भग्ना, एवं पतितः कूलवालक-श्रमणोऽविनीतत्वात् इति कूलवालककथा ॥३॥ अथाविनीतस्य दोषपूर्वं दृष्टान्तमाह - जहा सूणी पूइकन्नी, निक्कसिज्जइ सव्वसो ॥ एवं दुस्सीलपडिणीए, मुहरी निक्कसिज्जइ ॥ ४ ॥ एवममुना प्रकारेणानेन दृष्टान्तेन दुःशीलो-दुष्टाचारः प्रत्यनीको-गुरूणां द्वेषी, पुनर्मुखरी-वाचालः,एतादृशः कुशिष्यो दुर्विनीतो'निष्काश्यते गणात्-सङ्घाटकात् बाह्यः क्रियते, अथवा मुहरी'मुखम् अरिर्यस्य समुखारिरसंबद्धभाषी, प्राकृतत्वात् मुहरीतिशब्दः । केन दृष्टान्तेन निष्काश्यते ? यथा पूतिकर्णी-सटितकर्णी शुनी- 'कुकुरी सर्वतः सर्वस्थानकाद् गृहादितः सर्वैनिष्काश्यते, अत्र शुनीनिर्देशोऽधिकनिन्दासूचकः, सटितकर्णीतिविशेषणेन सर्वाङ्गं कृमिकुलाकुलं सूचितम्, इत्यनेन दुर्विनीतत्वं त्याज्यम् ॥४॥ अथ पुनस्तदेव दृढयति - कणकुंडगं चइत्ताणं, विटुं भुंजइ सूयरो ॥ एवं सीलं चइत्ताणं, दुस्सीले रमई मिए ॥५॥ एवममुना प्रकारेणानेन दृष्टान्तेन 'मिए' इति मृगो-मूोऽविवेकी शीलं-सम्यगाचारं त्यक्त्वादुःशीले-दुष्टाचारे रमते, अत्र शीलशब्दो विनयाचारसूचकः । केन दृष्टान्ते तदाहयथा शूकरः कणकुण्डं-"तन्दुलभक्ष्यभृतं भाजनं त्यक्त्वा विष्टां भुङ्क्ते तथा शीलं त्यक्त्वा मूर्खः कुशीलमादत्ते, दुःशीलस्य विष्टोपमा, मूर्खस्य शूकरोपमा, शीलस्य तन्दुलभृतभाजनोपमा ॥५॥ सुणियाऽभावं साणस्स, सूयरस्स नरस्स य ॥ विणए ठविज्ज अप्पाणं, इच्छंतो हियमप्पणो ॥ ६ ॥ आत्मानो हितमिच्छन् पुरुष आत्मानं विनये स्थापयेत्, किं कृत्वा ? शुनः- 'कुर्कुरस्य, च पुनः शूकरस्य नरस्याभावमशुभं भावं दृष्टान्तं निन्द्यमुपमानं, 'सुणिय' इति श्रुत्वा । १ निष्कास्यते मु० । एवमग्रेऽपि ॥ २ मुहुरी मु० ॥३ कुर्करी D. L. ॥ ४ कृमिकुलं D. ॥५ तण्डुल मु०॥६ कुर्करस्य D.L.॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy